SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ औपपा अनगा० तिकम् सू०१७ समाणकप्पा समलेझुकंचणा समसुहदुक्खा इहलोगपरलोगअप्पडिबडा संसारपारगामी कम्मणिग्घायणहाए अब्भुहिआ विहरंति ॥ (सू०१७)॥ | 'नत्थी' त्यादि, नास्ति तेषां भगवतामयं पक्षो यदुत कुत्रचिदपि प्रतिवन्धो भवतीति, तद्यथा-द्रव्यतः ४, द्रव्यतः | | सचित्तादिषु ३, क्षेत्रतो ग्रामादिषु ७, तत्र क्षेत्रं-धान्यजन्मभूमिः खलं-धान्यमलनपवनादिस्थण्डिलं, शेषाणि व्यक्तानि, कालतः समयादिषु, तत्र समयः सर्वनिकृष्टः कालः, आवलिका-असङ्ख्यातसमया यावत्करणादिदं दृश्यम्-'आणापाणू वा' उच्छासनिःश्वासकाल इत्यर्थः, 'थोवे वा' सप्तप्राणमाने 'लवे वा' सप्तस्तोकमाने 'मुहुत्ते वा' लवसप्तसप्ततिमाने अहो| रात्रपक्षमासाः प्रतीताः, 'अयणं' दक्षिणायनमितरच्च, अन्यतरे वा 'दीहकालसंजोए'त्ति वर्षशतादौ, भावतः क्रोधादिषु ६, एवं तेसिं न भवईत्ति एवम्-अमुना प्रकारेण तेषां न भवति प्रतिबन्ध इति प्रकृतम्, 'वासावासवजति वर्षासु-प्रावृषि वासो-निवासस्तद्वर्जमित्यर्थः, 'गामे एगराइय'त्ति एकरात्रो वासमानतया अस्ति येषां ते एकरात्रिकाः, एवं नगरे पञ्चरात्रिका इति, एतच्च प्रतिमाकल्पिकानाश्रित्योक्तम् , अन्येषां मासकल्पविहारित्वादिति, 'वासीचंदणसमाणकप्प'त्ति वासीचन्दनयोः प्रतीतयोरथवा वासीचन्दने इव वासीचन्दने-अपकारकोपकारको तयोः समानो-निषरागत्वात्समः कल्पोविकल्पः समाचारो वा येषां ते वासीचन्दनसमानकल्पाः, 'समलेटूकंचण'त्ति समे-तुल्ये उपेक्षणीयत्वाल्लेष्टुकाञ्चने येषां ते तथा, 'समसुखे' त्यादि 'विहरती' त्येतदन्तं व्यक्तं, वाचनान्तरे पुनः 'तंजहा' इत्यतः परं गमान्तं यावदिदं पठ्यते-'अंडए इवा' अण्डजो-हंसादिः अण्डकं वा-मयूराण्डकादिः क्रीडादिमयूरादिहेतुरिति वा प्रतिबन्धः स्यात्, सप्तम्येकवचनान्तं ॥३६॥ Jain Education International For Personal & Private Use Only jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy