________________
मृगैरनभिभवनीया इत्यर्थः, 'मंदरो इव अप्पकंपत्ति मेरुरिवानुकूलोपसर्गवायुभिरविचलितसत्त्वाः, 'सागरो इव गंभीर'त्ति हर्षशोकादिकारणसम्पर्केऽप्यविकृतचित्ताः, 'चंदो इव सोमलेस्स'त्ति अनुपतापहेतुमनःपरिणामाः, 'सूरो इव दित्ततेत्ति दीप्ततेजसो द्रव्यतः शरीरदीच्या भावतो ज्ञानेन, 'जच्चकणगमिव जायरूवा' जातं-लब्ध रूप-स्वरूपं रागादिकुद्रव्यविरहात् यैस्ते जातरूपाः, 'वसुंधरा इव सबफासविसह'त्ति स्पर्शाः-शीतोष्णादयो अनुकूलेतराः परीषहास्तान् सर्वान् | विषहन्ते ये ते तथा, 'सुहुअहुआसणो इव तेअसा जलंता' सुष्ठु हुतं-क्षिप्तं घृतादि यत्र हुताशने-वह्नौ स तथा, तद्वत्ते
जसा-ज्ञानरूपेण तपोरूपेण च ज्वलन्तो-दीप्यमानाः, पुस्तकान्तरे विशेषणानि सर्वाण्येतानीदं चाधिकम्-'आदरिसफ* लगा इव पायडभावा' आदर्शफलकानीव-पट्टिका इव प्रतले विस्तीर्णत्वादादर्शफलकानि तानीव प्रकटा-यथावदुपलभ्यमानस्वभावा भावा-आदर्शपक्षे नयनमुखादिधर्माः साधुपक्षे अशठतया मनःपरिणामाः येषु ते प्रकटभावाः।
नत्थि णं तेसि णं भगवंताणं कत्थइ पडिबंधे भवइ, से अ पडिबंधे चउविहे पण्णत्ते, तंजहा-व्वओ खित्तओ कालओ भावओ, व्वओ णं सचित्ताचित्तमीसिएसु व्वेसु, खेत्तओ गामे वा णयरे वा रणे हवा खेत्ते वा खले वा घरे वा अंगणे वा, कालओ समए वा आवलियाए वा जाव अयणे वा अण्णतरे वा
दीहकालसंजोगे, भावओ कोहे वा माणे वा मायाए वा लोहे वा भए वा हासे वा एवं तेसिं ण भवइ । ते णं भगवंतो वासावासवजं अट्ठ गिम्हहेमंतिआणि मासाणि गामे एगराइआ णयरे पंचराइआ वासीचंदण
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org