SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ 'तेणं कालेण'मित्यादि गमान्तरं व्यक्तं च, नवरं समितिसूत्रे 'आयाणभंडमत्तनिक्खेवणासमिय'त्ति आदाने-ग्रहणे | उपकरणस्येति गम्यते, भाण्डमात्रायाः-वस्त्राद्युपकरणरूपपरिच्छदस्य, भाण्डमात्रस्य वोपकरणस्यैव, अथवा भाण्डस्यवस्त्रादेम॒न्मयभाजनस्य वा मात्रस्य च-पात्रविशेषस्य निक्षेपणायां-विमोचने ये समिता:-सुप्रत्युपेक्षितादिक्रमेण सम्यक प्रवृत्तास्ते तथा, 'उच्चारपासवणखेलसिंघाणजल्लपारिहावणियासमिया' पुरीपमूत्रनिष्ठीवननासिकाश्लेष्ममलपरित्यागे समिता इति शुद्धस्थण्डिलाश्रयणात्, 'मणगुत्ते'त्यादि पदत्रयं कण्ठ्यम् , अत एव 'गुत्ता' सर्वथा गुप्तत्वात् 'गुत्तिंदिय'त्ति शब्दादिषु रागादिरहिता इत्यर्थः, अथवा 'गुत्तागुत्तिंदिय'त्ति गुप्तानि शब्दादिषु रागादिनिरोधाद् अगुप्तानि च आगमश्रवणेर्यासमित्यादिष्वनिरोधादिन्द्रियाणि येषां ते तथा, 'गुत्तबंभयारित्ति गुप्तं-वसत्यादिगुप्तिमद्ब्रह्म-मैथुनविरतिं चरन्ति-आसेवन्त इत्येवंशीलाः गुप्तब्रह्मचारिणः, 'अमम'त्ति आभिष्वनिकममेतिशब्दवर्जाः 'अकिंचन'त्ति निर्द्रव्याः (ग्रन्थाग्रम् १०००) वाचनान्तरे 'अकोहे' त्यादीन्येकादश पदानि दृश्यन्ते, तत्र 'अकोहे'त्यादि ४ प्रतीतानि, अत एव 'संत'त्ति शान्ता अन्तर्वृत्त्या 'पसंतत्ति प्रशान्ताः बहिर्वृत्त्या 'उवसंत'त्ति उपशान्ता उभयतः, अथवा मनःप्रभृत्यपेक्षया शान्तादीनि पदानि, अथवा श्रान्ता भवभ्रमणात् प्रशान्ताः प्रकृष्टचित्तत्वात् उपशान्ता-निवृत्ताः पापेभ्य, अथवा प्रशमप्रकर्षाभिधानायैकार्थ पदत्रयमिदम् , अत एव 'परिनिबुआ' सकलसन्तापवर्जिताः 'अणासव'त्ति अनाश्रवाः-अविद्यमानपापकर्मबन्धाः 'अगंथ'त्ति अविद्यमानहिरण्यादिग्रन्थाः 'छिन्नसोत्ति छिन्नशोकाश्छिन्नश्रोतसो वा, छिन्नसंसारप्रवाहा इत्यर्थः, निरुवलेव'त्ति उपलिप्यते अनेनेत्युपलेपस्तद्रहिताः, कर्मबन्धहेतुवर्जिता इत्यर्थः, अथ निरुपलेपतामेवोपमानैराह-वक्ष्यमा Join Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy