SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ भवन्ति, स्वपरसिद्धान्तप्रवीणतया, ततश्च 'आयावाय'ति स्वसिद्धान्तं 'जमइत्त'त्ति पुनःपुनरावर्तनेनातिपरिचितं कृत्वा, किमिव के इत्याह-नलवनमिव मत्तमातङ्गा इति प्रतीतं, नलवना इति पाठान्तरं, नलवनानीवेति व्याख्येयं, ततः' अच्छिदपसिणवागरण'त्ति अविरलप्रश्ना अविरलोत्तराश्च सम्भूताः सन्तो विहरन्तीति योगः, 'रयणकरंडगसमाण'त्ति प्रतीतं, 'कुत्तिआवणभू'त्ति कुत्रिक-स्वर्गमर्त्यपाताललक्षणं भूमित्रयं तत्सम्भवं वस्त्वपि कुत्रिकं, तत्सम्पादक आपणो-हट्टः । कुत्रिकापणस्तद्भूताः-समीहितार्थसम्पादनलब्धियुक्तत्वेन तदुपमाः, 'परवाइयपमद्दण'त्ति तन्मतप्रमईनात् 'परवाईहिं अणोकंता इत्यादि चोद्दसपुबी'त्यन्तं वाचनान्तरं, तत्र अनुपक्रान्ता-अनिराकृता इत्यर्थः, 'अण्णउत्थिएहिं ति अन्ययूथिकैः-परतीर्थिकैः "अणोद्धंसिज्जमाण'त्ति अनुपध्वस्यमानाः माहात्म्यादपात्यमानाः, विहरन्ति-विचरन्ति, 'अप्पेगइया | आयारधरे'त्येवमादीनि षोडश विशेषणानि सुगमानि, नवरं सूत्रकृतधरा इत्यस्य प्राक्तनाङ्गधरणाविनाभूतत्वेऽपि | तस्यातिशयेन धरणात्सूत्रकृतधरा इत्याधुक्तम् , अत एव विपाकश्रुतधरोक्तावपि एकादशाङ्गविद इत्युक्तम्, अथवा विदेविचारणार्थत्वादेकादशाङ्गविचारकाः, नवपूर्व्यादिग्रहणं तु तेषां सातिशयत्वेन प्राधान्यख्यापनार्थमिति, चतुर्दशपूर्वित्वे | सत्यपि द्वादशाङ्गित्वं केषाञ्चिन्न स्याच्चतुर्दशपूर्वाणां द्वादशाङ्गस्यांशभूतत्वात् , अत आह-'दुवालसंगिणो'त्ति, तथा द्वाद| शाङ्गित्वेऽपि न समस्तश्रुतधरत्वं केषाञ्चित्स्यादित्यत आह-'समत्तगणिपिडगधरा' गणीनाम्-अर्थपरिच्छेदानां पिटकमिव टू पिटक-स्थानं गणिपिटकम् , अथवा पिटकमिव वालञ्जकवाणिजकसर्वस्वाधारभाजनविशेष इव यत्तपिटकं, गणिन-आचायस्य पिटकं गणिपिटक-प्रकीर्णकश्रुतादेशश्रुतनियुक्त्यादियुक्तं जिनप्रवचनं, समस्तम्-अनन्तगमपर्यायोपेतं गणिपिटकं ASSASSISTISRISKISTOSSA Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy