________________
औपपातिकम्
॥३३॥
AASARAS5615
|तपोविशेषितत्वान्न पुनरुक्तत्वमवसेयमिति, 'सोहि'त्ति सुहृदो-मित्राणि जीवलोकस्येति गम्यम् , अथवा शोधियोगाच्छो- अनगा० |धयः-अकलुषहृदया इत्यर्थः, 'अणियाण'त्ति अनिदाना-निदानरहिताः 'अप्पुस्सुय'त्ति अल्पौत्सुक्या-औत्सुक्यवर्जिताः
सू० १६ 'अबहिल्लेस'त्ति संयमादबहिर्भूतमनोवृत्तयः, "अप्पडिलेस्सा [वा] अप्रतिलेश्या-अतुलमनोवृत्तयः,'सुसामण्णरय'त्ति अतिशयेन श्रमणकर्मासक्ताः, 'दंत'त्ति गुरुभिर्दमं ग्राहिताः विनयिता इत्यर्थः, इदमेव नैर्ग्रन्थ्यं प्रवचनं 'पुरओकाउंति | पुरस्कृत्य-प्रमाणीकृत्य विहरन्तीति, क्वचिदेवं च पठ्यते-'बहूणं आयरिया' अर्थदायकत्वात् 'बहूणं उवज्झायाँ' सूत्रदायकत्वात् , बहूनां गृहस्थानां प्रबजितानां च दीप इव दीपो मोहतमःपटलपाटनपटुत्वात् , द्वीप इव वा द्वीपः संसारसा-18|| गरनिमग्नानामाश्वासभूतत्वात् , 'ताणं ति त्राणमनर्थेभ्यो रक्षकत्वात् , 'सरणं'ति शरणमर्थसम्पादकत्वात् 'गईत्ति गम्यत | इति गतिरभिगमनीया इत्यर्थः, 'पइत्ति प्रतिष्ठन्त्यस्यामिति प्रतिष्ठा आश्रय इत्यर्थः॥
तेसि णं भगवंताणं आयावायावि विदिता भवंति परवाया विदिता भवंति आयावायं जमइत्ता न लालवणमिव मत्तमातंगा अच्छिद्दपसिणवागरणा रयणकरंडगसमाणा कुत्तिआवणभूआ परवादियपमद्दणा
दुवालसंगिणो समत्तगणिपिडगधरा सव्वक्खरसण्णिवाइणो सव्वभासाणुगामिणो अजिणा जिणसंकासा | जिणा इव अवितहं वागरमाणा संजमेणं तवसा अप्पाणं भावेमाणा विहरंति ॥ (सू०१६)
॥३३॥ MI तेषां भगवतां 'आयावायावित्ति आत्मवादाः-स्वसिद्धान्तप्रवादाः, अपिः समुच्चये, पाठान्तरेणात्मवादिनो जैना है इत्यर्थः, विदिताः-प्रतीताः भवन्ति, तथा परवादाः-शाक्यादिमतानि, पाठान्तरेण परवादिनः-शाक्यादयो विदिता
कम
dain Education International
For Personal & Private Use Only
www.jainelibrary.org