SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ 'ओसित्ति ओजो-मानसोऽवष्टम्भस्तद्वन्तः ओजस्विनः 'तेयंसित्ति तेजः शरीरप्रभा तद्वन्तः तेजस्विनः 'वच्चंसि'त्ति वचो-वचनं सौभाग्याधुपेतं येषामस्ति ते वचस्विनः, अथवा वर्चः-तेजः प्रभाव इत्यर्थः, तद्वन्तो वर्चस्विनः 'जसंसित्ति | यशस्विनः ख्यातिमन्तः जितक्रोधादीनि सप्त विशेषणानि प्रतीतानि, नवरं क्रोधादिजयः-उदयप्राप्तक्रोधादिविफलीकरण| तोऽवसेयः, 'जीविआसमरणभयविप्पमुक्का' जीविताशया मरणभयेन च विप्रमुक्ताः, तदुभयोपेक्षका इत्यर्थः, 'वयप्पहाणे' |ति व्रत-यतित्वं प्रधानम्-उत्तम शाक्यादियतित्वापेक्षया निर्ग्रन्थयतित्वाद्येषां, व्रतेन वा प्रधाना ये ते तथा, निर्ग्रन्थश्रमणा इत्यर्थः, ते च न व्यवहारत एवेत्यत आह-गुणप्पहाण'त्ति प्रतीतं, नवरं गुणाः-करुणादयः, गुणप्राधान्यमेव प्रपञ्चयन्नाह-'करणप्पहाणे' त्यादिविशेषणसप्तकं प्रतीतार्थ च, नवरं करणं-पिण्डविशुद्ध्यादि चरणं-महाव्रतादि निग्रहः| अनाचारप्रवृत्तेनिषेधनं निश्चयः-तत्त्वनिर्णयः विहितानुष्ठानेषु वा अवश्यंकरणाभ्युपगमः, आर्जवं-मायोदयनिग्रहः मार्दवं-मानोदयनिरोधः, लाघवं-क्रियासु दक्षत्वं क्षान्ति:-क्रोधोदयनिग्रह इत्यर्थः, मुक्तिः-लोभोदयविनिरोधो विद्याःप्रज्ञप्त्यादिकाः मन्त्रा-हरिणेगमेष्यादिमन्त्राःवेदाः-आगमाःऋग्वेदादयो वा ब्रह्म-ब्रह्मचर्य कुशलानुष्ठानं वा नया-नीतयः | नियमा-अभिग्रहाः सत्यं-सम्यग्वादः शौच-द्रव्यतो निर्लेपता भावतोऽनवद्यसमाचारः, यच्चेह चरणकरणग्रहणेऽप्याज वादिग्रहणं तदार्जवादीनां प्राधान्यख्यापनार्थमवसेयं, 'चारुवण्ण'त्ति सत्कीर्तयः गौराद्युदात्तशरीरवर्णयुक्ता वा सत्प्रज्ञा |वा 'लज्जातवस्सीजिइंदिय'त्ति लज्जाप्रधानास्तपस्विनः-शिष्या जितेन्द्रियाश्च येषां ते लज्जातपस्विजितेन्द्रियाः, अथवा | लज्जया तपःश्रिया च जितानीन्द्रियाणि यैस्ते लज्जातप:श्रीजितेन्द्रियाः, यद्यपि जितेन्द्रिया इति प्रागुक्तं, तथापीह लज्जा dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy