SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ औपपातिकम् ॥ ३१ ॥ भक्तस्यैकैव च पानकस्येति, एवं द्वितीयाद्याः सप्तम्यन्ताः एकैकदत्तिवृद्धियुक्ता इति । 'पढमसत्तराइंदिअं 'ति तिसृणां मध्ये प्रथमा सप्तरात्रिन्दिवा सप्ताहोरात्रप्रमाणा, अस्यां च चतुर्थ चतुर्थेन पानकाहारविरहित उत्तानको वा पाइर्वशायी वा निषद्योपगतो वा ग्रामादिभ्यो बहिर्विहरति, द्वितीय सप्तरात्रिन्दिवाऽप्येवंविधैव, नवरं उत्कुटुको वा लगण्डशायी वा दण्डायतो वा विहरति, एवं तृतीया सप्तरात्रिन्दिवापि, नवरं गोदोहिकास्थितो वा वीरासनिको वा आखकुजो वा आस्त इति । 'राईदिअं 'ति रात्रिन्दिवप्रमाणामहोरात्रिकीमित्यर्थः अस्यां च षष्ठोपवासिको ग्रामादिभ्यो बहिः प्रलम्बभुजस्तिष्ठतीति । 'एगराइयं ति एका रात्रिः प्रमाणमस्या इत्येकरात्रिकी ताम्, अस्यां चाष्टमभक्तिको ग्रामादिवहिरीषदवनतगात्रोऽनिमिषनयनः शुष्कपुद्गलनिरुद्धदृष्टिः जिनमुद्रास्थापितपादः प्रलम्बितभुजस्तिष्ठतीति, विशिष्ट संहननादियुक्त एव चैताः प्रतिपद्यन्ते, आह च - "पडिवज्जइ एयाओ संघयणधिइजुओ महासत्तो । पडिमाउ भावियप्पा सम्मं गुरुणा अणुन्नाओ ॥ १ ॥" इत्यादि ॥ 'सत्तसत्तमियं' ति सप्तसप्तमानि दिनानि यस्यां सा तथा, सा च सप्तभिर्दिनानां सप्तकैर्भवति, तत्र च प्रथमदिने एका दत्तिर्भतस्यैकैव च पानकस्यैवं द्व्यादिष्वेकोत्तरया वृद्ध्या सप्तमदिने सप्त दत्तयः, एवमन्यान्यपि षट् सप्तकानि, अथवा प्रथमसप्तके प्रतिदिन मेका दत्तिर्द्वितीयादिषु तु द्व्यादयो यावत्सप्तमे सप्तके प्रतिदिनं सप्तेति, | एवमष्टाष्टमिका नवनवमिका दशदशमिका चेति, नवरं दत्तिवृद्धिः कार्येति । कचिदिह स्थाने भद्रासुभद्रामहाभद्रासर्वतोभद्राभद्रोत्तराश्च भिक्षुप्रतिमाः पठ्यन्ते, तत्र सुभद्रा अप्रतीता, शेषास्तु व्याख्याताः प्राक्, नवरं भद्रोत्तरास्थापना १ प्रतिपद्यत एताः संहननधृतियुक्तो महासत्त्वः । प्रतिमा भावितात्मा सम्यग्गुरुणाऽनुज्ञातः ॥ १ ॥ Jain Education International For Personal & Private Use Only अनगा० सू० १५ ॥ ३१ ॥ www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy