SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ एवम्-५/६७८९। प्रथमा पतिः ७८।९।५।६। द्वितीया ।९।५।६७४८ तृतीया ।६७८।९।५। चतुर्थी 1८।९।५।६।७। पञ्च मीति । अथवा ।५।६ ।९।१०।११। प्रथमा पतिः ।।९।१०।१।५।६। द्वितीया ।११।५।६।७।८।९।१०॥ तृतीया ७८। मा ९।१०।११।५।६ चतुर्थी ।१०।११५६७।८९। पञ्चमी ।६७८४९।१०।१५। षष्ठी ।९।१०।१।५।६७१८ सप्तमीति । 'खुड्डिय'ति क्षुद्रिका-महत्यपेक्षया लघ्वी मोकप्रतिमा-प्रश्रवणाभिग्रहः, इयं च द्रव्यतः प्रश्रवणविषया प्रश्रवणस्याप्रतिष्ठापनेत्यर्थः, क्षेत्रतो ग्रामादेर्बहिः, कालतः शरदि निदाघे वा प्रतिपद्यते, भुक्त्वा चेत् प्रतिपद्यते चतुर्दशभकेन समाप्यते, अभुक्त्वा चेत् प्रतिपद्यते तदा षोडशभक्तेन समाप्यते, भावतस्तु दिव्यादिकोपसर्गसहनमिति । एवं महामोकप्रतिमाऽपि नवरं भुक्त्वा चेत् प्रतिपद्यते तदा षोडशभक्तेन समाप्यते, अभुक्त्वा चेत्तदाऽष्टादशभक्तेनेति । 'जव& मझं चंदपडिमति यवस्येव मध्यं यस्यां सा यवमध्या, चन्द्र इव कलावृद्धिहानिभ्यां या प्रतिमा सा चन्द्रप्रतिमा, तथाहि शुक्लप्रतिपदि एक कवलं भिक्षां वा अभ्यवहृत्य प्रतिदिनं कवलादिवृद्ध्या पञ्चदश पौर्णमास्यां कृष्णप्रतिपदि च पञ्चदशैव भुक्त्वा प्रतिदिनमेकहान्या अमावास्यायामेकमेव यस्यां भुतेसा स्थूलमध्यत्वात् यवमध्येति । 'वइरमज्झं चंदपडिमति वैरस्येव (वनस्येव) मध्यं यस्यां सा तथा, यस्यां हि कृष्णप्रतिपदि पञ्चदश कवलान् भुक्त्वा ततः प्रतिदिनमेकहान्या अमावास्यायामेकं शुक्ल प्रतिपद्यप्येकमेव, ततः पुनरकैकवृद्ध्या पौर्णमास्यां पञ्चदश भुङ्क्ते सा तनुमध्यत्वाद्वज्रमध्येति ॥ वाच नान्तराधीतमथ पदचतुष्कम्-'विवेगपडिमं'ति विवेचनं विवेकः-त्यागः, स चान्तराणां कषायादीनां बाह्यानां च गणशरीलारानुचितभक्तपानादीनां तत्प्रतिपत्तिविवेकप्रतिमेति। विउस्सग्गपडिमं ति व्युत्सर्गप्रतिमा कायोत्सर्गकरणमिति । 'उवहाण. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy