________________
औपपातुल्लविक्कमविलसियगई' वरवारणस्य-गजेन्द्रस्य तुल्यः-सदृशो विक्रमः-पराक्रमः विलसिता च-विलासवती गतिः-गमनं
श्रीवीरव० तिकम् | यस्य स तथा । 'गयससणसुजायसन्निभोरु' गजश्वसनस्य-हस्तिनासिकायाः सुजातस्य-सुनिष्पन्नस्य सन्निभे-सदृश्यौ
ऊरू-जो यस्य स तथा । 'समुग्गणिमग्गगूढजाणू' समुद्गः-समुद्गकाख्यभाजनविशेषस्तस्य तत्पिधानस्य च सन्धिस्तद्वन्निम॥२०॥
निगूढे-अत्यन्तनिगूढे मांसलत्वादनुन्नते जानुनी-अष्ठीवती यस्य स तथा । 'एणीकुरुविंदावत्तवट्टाणुपुवजंधे' एणी-हरिणी
| तस्या इव कुरुविन्दः-तृणविशेषः वत्रं च-सूत्रवलनकं ते इव च वृत्ते-वर्तुले आनुपूर्येण तनुके चेति गम्यं, जङ-प्रसृते | | यस्य स तथा, अन्ये त्याहुः-एण्यः-स्नायवः कुरुविन्दा-कुटिलकाभिधानो रोगविशेषः ताभिस्त्यक्ते, शेषं तथैव । 'संठि| यसुसिलिट्ठगूढगुप्फे' संस्थितौ-संस्थानविशेषवन्तौ सुश्लिष्टौ-सुघटनौ गूढौ-मांसलत्वादनुपलक्ष्यौ गुल्फौ-पादमणि| बन्धौ यस्य स तथा । 'सुपइट्ठियकुम्मचारुचलणे' सुप्रतिष्ठितौ-शुभप्रतिष्ठौ कूर्मवत्-कच्छपवच्चारू-उन्नतत्वेन शोभनौ
चलनौ-पादौ यस्य स तथा । 'अणुपुवसुसंहयंगुलीए' आनुपूर्येण-क्रमेण वर्द्धमाना हीयमाना वा इति गम्यं, सुसं-| हता-सुष्टु अविरला अङ्गुल्यः-पादानावयवा यस्य स तथा, 'अणुपुषसुसाहयपीवरंगुलीएत्ति क्वचिदू दृश्यते । 'उण्ण-I|| * यतणुतंबणिद्धणहे' उन्नता-अनिम्नाः तनवः-प्रतलाः ताम्रा-अरुणाः स्निग्धाः-कान्ता नखाः-पादाङ्गुल्यवयवा यस्य | 8 स तथा । 'रत्तुप्पलपत्तमउयसुकुमालकोमलतले' रक्तं-लोहितमुत्पलपत्रवत्-कमलदलवन्मृदुकम्-अस्तब्धं सुकुमारा-16
॥२०॥ ४ाणां मध्ये कोमलं पादतलं यस्य स तथा । 'अट्ठसहस्सवरपुरिसलक्खणधरे'त्ति व्याख्यातमेव । वाचनान्तरेऽधीयते-'नग
नगरमगरसागरचकंकवरंकमंगलंकियचलणे' नगः-पर्वतो नगरं-पत्तनं मकरो-जलचरविशेषः सागरः-समुद्रः चक्र-रथाङ्गं
R
dan Education International
For Personal & Private Use Only
www.jainelibrary.org