SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ एतान्येवाङ्का-लक्षणानि बराङ्काश्च-नगादिव्यतिरिक्तप्रधानलक्षणानि मङ्गलादीनि च-स्वस्तिकादीनीति द्वन्द्वः, तैरकितौ चलनौ यस्य स तथा । 'विसिट्ठरूवे'त्ति व्यक्तं । 'हुयवहनिमजलियतडितडियतरुणरविकिरणसरिसतेए' हुतवहस्य निर्धूमं यद् ज्वलितं तस्य तटितडितश्च-विस्तारितविद्युतः तरुणरविकिरणानां च-अभिनवादित्यकराणां सदृशं-द समं तेजः-प्रभा यस्य स तथा । 'अणासवे' प्राणातिपातादिरहितः। अममे ममेतिशब्दरहितो, निर्लोभत्वात् । 'अकिंचणे| | निद्रव्यः, परिग्रहसंज्ञारहित्वात् । 'छिन्नसोए' छिन्नश्रोताः त्रुटितभवप्रवाहः, छिन्नशोको वा । 'निरुवलेवे' द्रव्यतो निर्मलदेहो,|| भावतस्तु कर्मबन्धहेतुलक्षणोपलेपरहितः । पूर्वोक्तमेव विशेषेणाह-'ववगयपेमरागदोसमोहे' व्यपगतं-नष्टं प्रेम च-अभिध्वङ्गलक्षणं रागश्च-विषयानुरागलक्षणो द्वेषश्च-अनिष्टेऽप्रीतिरूपो मोहश्च अज्ञानरूपो वा यस्य स तथा । 'निग्गंथस्स |पवयणस्स देसए' निर्ग्रन्थस्य-जैनस्य प्रवचनस्य-शासनस्य देशकः, __ सत्थनायगे पइट्टावए समणगपई समणगविंदपरिअहए चउत्तीसबुद्धवयणातिसेसपत्ते पणतीससच्चवयणातिसेसपत्ते आगासगएणं चक्केणं आगासगएणं छत्तेणं आगासियाहिं चामराहिं आगासफलिआमएणं सपा| यवीढेणं सीहासणेणं धम्मज्झएणं पुरओ पकढिजमाणेणं (चउद्दसहिं समणसाहस्सीहिं छत्तीसाए अजिआ-| साहस्सीहिं) सद्धिं संपरिवुड़े पुव्वाणुपुर्वि चरमाणे गामाणुग्गामं दूइजमाणे सुहंसुहेणं विहरमाणे चंपाए| णयरीए बहिया उवणगरग्गामं उवागए चंपं नगरिं पुण्णभई चेइअं समोसरि कामे ॥ (सू०१०)॥ १ आगसगयाहिं सेयवरचामराहिं । २ नैतद्व्याख्यानुगतम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy