________________
45
%25A5%
सुकुमालकोमलतले अट्ठसहस्सवरपुरिसलक्खणधरे नगनगरमगरसागरचक्कंकवरंकमंगलंकियचलणे विसिहरूवे हुयवहनिमजलियतडितडियतरुणरविकिरणसरिसतेए अणासवे अममे अकिंचणे छिन्नसोए निरुवलेवे ववगयपेमरागदोसमोहे निग्गंथस्स पवयणस्स देसए __ 'झसोदरे'त्ति व्यक्तं । 'सुइकरणे' शुचीन्द्रियः। 'झषोदरपद्मविकटनाभि' इति पाठान्तरं । 'गङ्गावत्तकपयाहिणावत्ततरंगभंगुररविकिरणतरुणबोहियअकोसायंतपउमगंभीरवियडणाहे'गङ्गावर्तक इव प्रदक्षिणावर्ततरङ्गैरिव-वीचिभिरिव भरा च-भग्ना रविकिरणतरुणत्ति-तरुणरविकिरणैर्बोधितं-स्पृष्टं अकोसायंतत्ति-विकाशीभवद् यत्पनं तद्वद्गम्भीरा च विकटा च नाभिर्यस्य स तथा । 'साहयसोणंदमुसलदप्पणणिकरियवरकणगच्छरुसरिसवरवइरवलियमज्झे' साहयत्ति-संहतं संक्षि-18|| तमध्यं यत्सोणंद-त्रिकाष्ठिका मुशलं च-प्रतीतं दर्पणकश्च-आदर्शकदण्डो निगरियत्ति-सारीकृतं यद्वरकनकं तस्य यः त्सरः-खड्गमुष्टिः स चेति द्वन्द्वः, तैः सदृशो वरवज्र इव वलित:-क्षामो मध्यो-मध्यभागो यस्य स तथा। 'पमुइयवर|तुरयसीहवरवट्टियकडी' प्रमुदितस्य-रोगशोकाद्यनुपहतस्य वरतुरगस्येव सिंहवरस्येव च प्रतीतस्य वर्तिता-वृत्ता कटी-18 | नितम्बदेशो यस्य स तथा, पाठान्तरे तु 'पमुइयवरतुरगसीहअइरेगवट्टियकडी'त्ति दृश्यते, तत्र प्रमुदितयोर्वरयोस्तुरगसिंहयोः कट्याः सकाशादतिरेकेण-अतिशयेन वर्तिता-वृत्ता कटी यस्य स तथा । 'वरतुरगसुजायगुज्झदेसे' वरतुरगस्येव सुजातः-सङ्गुप्तत्वेन सुनिष्पन्नो गुह्यदेशो यस्य स तथा, वाचनान्तरे तु 'पसत्थवरतुरगगुज्झदेसे' व्यक्तं च । 'आइण्णहउब निरुवल्लेवे' जात्यश्व इव निरुपलेपो-लेपरहितशरीरः, जात्यश्वो हि मूत्रपुरीषाद्यनुपलिप्तगात्रो भवति । 'वरवारण
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org