________________
औपपातिकम्
॥ १९ ॥
तथा,
तं च निर्मलं च सुजातं च निरुपहतं च-रोगोपहतिवर्जितं देहं धारयतीत्येवंशीलो यः स तथा । 'अट्ठसहस्सपडि| पुण्णवरपुरिस लक्खणधरे' त्ति क्वचिदृश्यते, अष्टसहस्रम् - अष्टोत्तरसहस्रं प्रतिपूर्णम् - अन्यूनं वरपुरुषलक्षणानां - स्वस्तिकादीनां धारयति यः स तथा । 'सण्णयपासे' अधोऽधः पार्श्वयोरवनतत्वात् 'संगयपासे' देहप्रमाणोचितपार्श्वः, अत एव 'सुंदरपासे'त्ति व्यक्तं, 'सुजायपासे' सुनिष्पन्नपार्श्वः, 'मियमाइअपीणरइयपासे' मितमात्रिकौ - अत्यर्थ परिमाणवन्तौ पीनौउपचितौ रतिदौ- रम्यौ पाव - कक्षाधोदेशौ यस्य स तथा । 'उज्जुयसमसंहियजच्चतणुक सिणणिद्ध आइज्जलडहर मणिज्जरोमराई' ऋजुकानाम् - अवक्राणां समानाम्-अविषमाणां संहितानां संहतानां जात्यानां प्रधानानां तनूनां - सूक्ष्माणां कृष्णानां - कालानां स्निग्धानाम् - अरूक्षाणाम् आदेयानाम्-उपादेयानां लडहानां - सलावण्यानाम् अत एव रमणीयानां - रम्याणां रोम्णां - तनूरुहाणां राजि:- पङ्क्तिर्यस्य स तथा । 'झसविहगसुजायपीणकुच्छी' मत्स्यपक्षिणोरिव सुजातौ - सुनिष्पन्नौ पीनौ - उपचितौ कुक्षी - उदरदेशविशेषौ यस्य स तथा ।
झसोदरे सुइकरणे पमविअडणाभे गंगावत्तकपया हिणावत्ततरंग भंगुररविकिरणतरुण बोहियअकोसा|यंत पउम गंभीरवियडणाभे साहयसोणंदमुसलदप्पणणिकरियवर कणगच्छरु सरिस वरवर वलिअमज्झे पमु| इयवरतुरगसीहवरवहियकडी वरतुरगसुजायसुगुज्झदेसे आइण्णहउब्व णिरुवलेवे वरवारणतुलविक्कमविलसियगई गयससणसुजायसन्निभोरु समुग्गणिमग्गगूढजाणू एणीकुरुविंदावत्तवाणुपुव्वजंघे संठियसुसिलि उगूढगुप्फे सुप्पइट्ठियकुम्मचारुचलणे अणुपुव्वसुसंहयंगुलीए उष्णयतणुतंबणिणक्खे रत्तुप्पलपत्तमउअ
Jain Education national
For Personal & Private Use Only
श्रीवीरव०
सू० १०
॥ १९ ॥
www.jainelibrary.org