________________
मांसलौ-समांसौ सुजाती-सुनिष्पन्नौ प्रशस्तलक्षणौ-शुभचिह्नौ अच्छिद्रजालौ-विवक्षिताङ्गुल्यन्तरालसमूहरहिती पाणी| हस्तौ यस्य स तथा । 'पीवरकोमलवरंगुली' व्यक्तं, नवरं पीवराः-महत्यः, क्वचित्तु दृश्यते 'पीवरवट्टियसुजायकोमलवर-|| गुली' व्यक्तं च । 'आयंबतंबतलिणसुइरुइलणिद्धणक्खे' 'आयंबतंब'त्ति ताम्रवत् आताम्रा-ईषलोहिताः तलिनाः-प्रतलाः शुचयः-पवित्राः रुचिराः-दीप्ताः स्निग्धा-अरूक्षा नखा:-कररुहा यस्य स तथा। 'चंदपाणिलेहे' चन्द्राकाराः पाणौ रेखा यस्य स तथा, एवमन्यान्यपि त्रीणि । 'दिसासोत्थिअपाणिलेहे' दिक्स्वस्तिकः-दक्षिणावर्तस्वस्तिकः, एतदेवानन्तरोक्तं विशेषणपश्चकं तत्प्रशस्तताप्रकर्षप्रतिपादनाय सङ्ग्रहवचनेनाह-चन्द्रसूर्यशङ्खचक्रदिस्वस्तिकपाणिलेखः, अत एव वाचना|न्तरेऽधीयते-'रविससिसंखचक्कसोत्थियविभत्तसुविरइयपाणिलेहे' व्यक्तं, नवरं विभक्ता-विभागवत्यः सुविरचिताः-सुष्ठु-४|| कृताः स्वकीयकर्मणा । 'अणेगवरलक्खणुत्तिमपसत्थसुइरइयपाणिलेहे' अनेकैर्वरलक्षणैरुत्तमाः प्रशस्ताः शुचयो रतिदाश्चरम्याः पाणिलेखा यस्य स तथा । अथ प्रकृतवाचनाऽनुश्रीयते-'कणगसिलायलुज्जलपसत्थसमतल उवचियविच्छिन्नपिहुलवच्छे' कनकशिलातलवदुज्वलं प्रशस्तं च-शुभं समतलञ्च-अविषमरूपम् उपचितञ्च-मांसलं विस्तीर्ण पृथुलं च-अतिविशालं च वक्षः-उरो यस्य स तथा। 'सिरिवच्छंकियवच्छे' व्यक्तं, वाचनान्तरे तु वक्षोविशेषणान्येवं दृश्यन्ते-'उवचियपुरवरकवाडविच्छिण्णपिहुलवच्छे' उपचितं पुरवरकपाटवद्विस्तीर्ण पृथुलं च-अतिपृथु वक्षो यस्य स तथा, 'कणयसिलायलुजलपसत्थसमतलसिरिवच्छरइयवच्छे' पूर्ववन्नवरं श्रीवत्सेन रतिदं-रम्यमिति विशेषः । 'अकरंडुअकणगरुययनि||म्मलसुजायनिरुवहयदेहधारी' अकरण्डुकञ्च-मांसलतयाऽनुपलक्ष्यमाणपृष्ठवंशास्थिक, कनकस्येव रुचको-रुचिर्यस्य स |
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org