SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ तिकम् श्रीवीरव० सू० १० औपपा- प्रशस्तः-शुभः शार्दूलस्येव-व्याघ्रस्येव विपुलो-विस्तीर्णो हनुः-चिबुकं यस्य स तथा । 'चउरंगुलसुप्पमाणकंबुवरसरिसग्गीवे' चतुरङ्गललक्षणं सुष्ठ प्रमाणं यस्याः सा तथाविधा कम्बुवरसदृशी च-उन्नततया वलित्रययोगाच्च प्रधानशङ्खसदृशी ग्रीवालकण्ठो यस्य से तथा । "वरमहिसवराहसीहसलउसभनागवरपडिपुण्णविउलक्खंघे' वरमहिषः-प्रधानः सैरीभेयः वराहः शूकरः सिंहः-केसरी शार्दूलो-व्याघ्रः ऋषभो-वृषभोनागवरः-प्रधानगजः एषामिव प्रतिपूर्णः-स्वप्रमाणेनाहीनो विपुलो-वि|स्तीर्णः स्कन्धः-अंशदेशो यस्य स तथा। 'जुगसन्निभपीणरइयपीवरपउट्ठसंठियसुसिलिठविसिघणथिरसुबद्धसंधिपुरवरफलिह| वट्टियभुए' युगसन्निभौ-वृत्तत्वायतत्वाभ्यां यूपतुल्यौ पीनौ-उपचितौ रतिदौ-पश्यतां सुखकरौ पीवरप्रकोष्ठौ-अकृशकलाचिकौ संस्थितौ-विशिष्टसंस्थानौ सुश्लिष्टाः-सङ्गता विशिष्टाः-प्रधानाः घना-निविडाः स्थिरा:-नातिश्लथाः सुबद्धाः-सुष्टु नद्धाः स्नायुभिः सन्धयः-सन्धानानि ययोस्तौ तथा, पुरवरपरिघवत्-नगरार्गलावद्वर्तितौ च बाहू यस्य स तथा, वाचनान्तरे 'पुरवरफलिहवट्टियभुए'इत्येतावदेव भुजविशेषणं दृश्यते । 'भुयईसरविउलभोगआदाणपलिहउच्छूढदीहबाइ'भुजगेश्वरो-नागराजस्तस्य यो विपुलो-महान् भोगो-देहः स तथा, स चासौ आदानार्थम्-ईप्सितार्थग्रहणाय 'पलिहोच्छूढ'त्ति पर्यवक्षि|प्तश्च-प्रसारित इति समासः, पाठान्तरे 'आयाणफलिहओच्छूढ'त्ति आदीयते अस्मादित्यादानम्-अर्गलास्थानं तस्माद् 'उच्छूढो'त्ति निष्काशितः 'फलिहोत्ति अर्गलादण्डः स इव ताविव वा दीघौ बाहू यस्य स तथा, वाचनान्तरे युगसन्नि|भपीनरतिदपीवरप्रकोष्ठश्चासौ संस्थितोपचितघनस्थिरसुसम्बद्धसुनिगूढपर्वसन्धिश्चेति कर्मधारयपदमिति । 'रत्ततलोव-|| | इयमउअमंसलसुजायलक्खणपसत्थअच्छिद्दजालपाणी' रक्ततलौ-लोहिताधोभागौ उपचितौ-उन्नती मृदुको-कोमलौ | dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy