________________
घननिचितादिविशेषणशिरस्कः।'सामलिबोंडघणनिचियप्फो(च्छो)डियमिउविसयपसत्थसुहमलक्खणसुगंधसुंदरभुअमोअगभिंगनेलकजलपहिठ्ठभमरगणणिद्धनिकुरुंबनिचियकुंचियपयाहिणावत्तमुद्धसिरए' शाल्मली-वृक्षविशेषः तस्या यद्बोण्डं-फलं घननिचितम्-अतीव निबिड 'छोटिय'ति छोटितं स्फोटितं तद्वत् मृदवः-सुकुमाराश्च विशदाश्च-व्यक्ताः प्रशस्ताश्च-शुभाः सूक्ष्माश्च-श्लक्ष्णाः लक्षणाश्च-लाक्षणिकाः सुगन्धयश्च-सुरभयः सुन्दराश्च-शोभनाः भुजमोचकवद्-रत्नविशेष इव भृङ्गवत्कीटविशेषवदङ्गारविशेषवद्वा नैलवत्-नीलीविकारवत् अथवा भृङ्गनेलवत् कजलवत्-मषीव प्रहृष्टभ्रमरगणवच्च-निरुज| द्विरेफवृन्दमिव स्निग्धः-कृष्णच्छायो निकुरुम्बः-समूहो येषां ते तथा, ते च निचिताश्च-निबिडाः कुञ्चिताश्च-कुण्डलीभूताः प्रदक्षिणावर्ताश्च-प्रतीताः मूर्द्धनि-मस्तके शिरोजा-वाला यस्य स तथा, अधिकृतवाचनायां भुजमोचकशब्दादारभ्य चेदमधीयते न सामलीत्यादीति । 'दालिमपुप्फप्पगासतवणिजसरिसनिम्मलसुणिद्धकेसंतकेसभूमी' दाडिमपुष्पप्रकाशा च रक्तेत्यर्थः, तपनीयसदृशी च-रक्तसुवर्णसमवणेत्यर्थः, निर्मला च सुस्निग्धा च प्रतीता केशान्ते-वालसमीपे | केशभूमिः--केशोत्पत्तिस्थानभूता मस्तकत्वक् यस्य स तथा । 'घणनिचिये'त्यादि प्राग्वत्, छत्राकारोत्तमाङ्गदेशः, उन्नतत्वसाधर्म्यात् । णिवणसमलट्ठमट्ठचंदद्धसमणिडाले' निर्बणं-विस्फोटकादिकृतक्षतरहितं समम्-अविषममत एव लष्टं-मनोज्ञं मृष्टं-शुद्धं चन्द्रार्धसमं-शशधरशकलसदृशं ललाटम्-अलिकं यस्य स तथा। 'उडुवइपडिपुण्णसोमवयणे' इह प्राकृतत्वात् प्रतिपूर्णोडुपतिसौम्यवदन इति दृश्यम् , उडुपतिः-चन्द्रः । 'अल्लीणपमाणजुत्तसवणे' आलीनौ न तु टप्परौ प्रमाण| युक्ती-स्वप्रमाणोपेतौ श्रवणौ-को यस्य स तथा, अत एव 'सुश्रवणः' शोभनश्रोत्रः शोभनश्रवणव्यापारो वा । 'पीणमं
dain Education International
For Personal & Private Use Only
www.jainelibrary.org