________________
औपपातिकम्
सू०१०
॥१५॥
वा अत एव क्षायिकत्वाद्वा वरे-प्रधाने ज्ञानदर्शने-केवललक्षणे धारयतीति अप्रतिहतवरज्ञानदर्शनधरः, कथमस्यैते श्रीवीरव० इत्यत आह-यतो 'व्यावृत्तच्छद्मा' निवृत्तज्ञानाद्यावरणो निर्मायो वा, एतच्च रागादिजयात्तस्येत्याह-'जिनो' रागादिजेता, रागादिजयश्च रागादिस्वरूपादिज्ञानादित्यत आह-'जाणए'त्ति ज्ञायको-ज्ञाता रागादिभावसम्बन्धिनां स्वरूपकारणफलानामिति, अत एव 'तिण्णोत्ति तीर्ण इव तीर्णः, संसारसागरमिति गम्यते, अत एव 'तारकः' संसारसागरादुपदेशवतिनां भगवानिति, तथा 'मुक्को' बाह्याभ्यन्तरग्रन्थात् कर्मबन्धनाद्वा, अत एव 'मोचकः' अन्येषामुपदेशवर्तिनां, तथा | "बुद्धे'त्ति बुद्धवान् बोद्धव्यम् , अत एव 'बोधकः' अन्येषामिति, एतावन्ति विशेषणानि भवावस्थामाश्रित्योक्तानि, अथ सिद्धावस्थामाश्रित्योच्यते-'सवण्णू सबदरिसी'त्ति, इह ज्ञान-विशेषावबोधः, दर्शनं च-सामान्यावबोधः, सिद्धावस्थायां पुरुषस्य कैश्चित् ज्ञानं नाभ्युपगम्यते प्रकृतिविकारस्य बुद्धेरभावादित्येतन्मतव्यपोहार्थमिदं, तथा 'शिव' सर्वोपद्रवरहितत्वाद् 'अचल स्वाभाविकप्रायोगिकचलनरहितत्वात् 'अरुज' रोगाभावात् 'अनन्तम्' अनन्तार्थविषयज्ञानस्वरूपत्वात् , 'अक्षयम्' अनाशं, साद्यपर्यवसितत्वात् , अक्षयं वा परिपूर्णत्वात् , 'अन्याबाधम्' अपीडाकारित्वात्, 'अपुनरावर्तकं' पुनर्भवाभावात् , सिद्धिगतिरिति नामधेयं-प्रशस्तं नाम यस्य तत्सिद्धिगतिनामधेयं, तिष्ठन्त्यस्मिन्निति स्थान-क्षीणकर्मणो जीवस्य स्वरूपं लोकाग्रं वा, जीवस्वरूपविशेषणानि तु लोकाग्रे उपचारादवसेयानीति, 'संपाविउकामे'त्ति संप्राप्तुकामस्तला त्राप्राप्त इत्यर्थः, 'जिणे जाणए' इत्यादिविशेषणानि क्वचिन्न दृश्यन्ते, दृश्यन्ते पुनरिमानि-'अरह'त्ति अर्हन्-अशोकादि-||
महापूजार्हत्वात् अविद्यमानं वा रहः-एकान्तं प्रच्छन्नं सर्वज्ञत्वादू यस्य सोऽरहा, जिनः प्राग्वत्, केवलानि-सम्पूर्णानि
CASEARCRACTERTA
॥ १५ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org