________________
तत्वात् , एवं 'पुरुषवरगंधहस्ती' गन्धहस्तिता चास्य सामान्यगजकल्पपरचक्रदुर्भिक्षजनमरकादिदुरितविनाशनात्, तथा न भयं दयते-ददाति प्राणापहारकरणरसिकोपसर्गकारिण्यपि प्राणिनीत्यभयदयः, अभया वा-सर्वप्राणिभयपरिहारवती | |दया-घृणा यस्य सोऽभयदयः, न केवलमयमनर्थ न करोति अपि त्वर्थ करोतीति दर्शयन्नाह-चक्षुरिव चक्षुः-श्रुतज्ञानं तद्द| यते यः स चक्षुर्दयः, यथा हि लोके चक्षुर्दत्त्वा वाञ्छितस्थानमार्ग दर्शयन्महोपकारी भवति इत्येवमिहापीति दर्शयन्नाह
मार्ग-सम्यग्दर्शनादिकं मोक्षपथं दयत इति मार्गदयः, यथा हि लोके चक्षुरुद्घाटनं मार्गदर्शनं च कृत्वा चौरादिविलुप्त| धनान्निरुपद्रवं स्थान प्रापयन् परमोपकारी भवतीत्येवमिहापीति दर्शयन्नाह-'शरणदयो' निरुपद्रवस्थानदायको, निर्वाणहेतुरित्यर्थः, यथा हि लोके चक्षुर्मार्गशरणदानाहुःस्थानां जीवनं ददात्येवमिहापीति दशर्यन्नाह-जीवनं जीवो-भावप्राणधारणम् , अमरणधर्मत्वमित्यर्थः, तं दयत इति जीवदयो, जीवेषु वा दया यस्य स जीवदयः, तथा दीप इव समस्तवस्तुप्रकाशकत्वात् द्वीपो वा संसारसागरान्तर्गताङ्गिवर्गस्य नानाविधदुःखकल्लोलाभिघातदुःस्थितस्याश्वासहेतुत्वात्, तथा त्राणम्अनर्थप्रतिहननं तद्धेतुत्वात्राणं, तथा शरणम्-अर्थसम्पादनं तद्धेतुत्वाच्छरणं, तथा 'गई'त्ति गम्यतेऽभिगम्यते दुःस्थितैः सुस्थतार्थमाश्रीयते इति गतिः, 'पइहत्ति प्रतिष्ठन्त्यस्यामिति प्रतिष्ठा-आधारः संसारगर्ते प्रपततः प्राणिवर्गस्येति, तथा त्रयस्समुद्राश्चतुर्थो हिमवानेते चत्वारः पृथिव्या अन्ताः-पर्यन्तास्तेषु स्वामितया भवतीति चातुरन्तः, स चासौ चक्रवर्ती च चातुरन्तचक्रवर्ती, वरश्चासौ चातुरन्तचक्रवर्ती च वरचातुरन्तचक्रवर्ती-सर्वराजातिशायी, धर्मविषये वरचातुरन्तचक्रवर्ती धर्मवरचातुरन्तचक्रवर्ती, सकलधर्मप्रणेतृणां मध्ये सातिशयत्वादिति, तथा अप्रतिहते-कटादिभिरस्खलिते अविसंवादके
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org