SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ | इत्यर्थः। 'तद्देवसिति दिवसे भवा दैवसिकी सा चासौ विवक्षिता-अमुत्र नगरादावागतो विहरति भगवानित्यादि| रूपा, देवसिकी चेति तदेवसिकी, अतस्तां निवेदयति । 'तस्स ण'मित्यादि तत्र 'दिण्णभतिभत्तवेयण'त्ति दत्तं भृतिभक्तरूपं वेतन-मूल्यं येषां ते तथा, तत्र भृतिः-कार्षापणादिका भक्तं च-भोजनमिति ॥८॥ तेणं कालेणं तेणं समएणं कोणिए राया भंभसारपुत्ते बाहिरियाए उवट्ठाणसालाए अणेगगणनायगदंडनायगराईसरतलवरमाडंबिअकोडंबिअमंतिमहामंतिगणगदोवारिअअमच्चचेडपीढमद्दनगरनिगमसेडिसेणाव|| इसत्यवाहदूतसंधिवाल सद्धिं संपरिबुडे विहरइ ॥ (सू०९)॥ ___ 'भभसारपुत्ते'त्ति श्रेणिकराजसूनुः । 'अणेगगणे' त्यादि, अनेके ये गणनायका:-प्रकृतिमहत्तराः, दण्डनायका:-तन्त्र| पालाः राजानो-मण्डलिका ईश्वरा-युवराजाः, मतान्तरेणाणिमाद्यैश्वर्ययुक्ताः, तलवरा:-परितुष्टनरपतिप्रदत्तपट्टबन्धविभूषिताःराजस्थानीयाः, 'माडंबिया' छिन्नमडम्बाधिपाः, 'कोडंबिया' कतिपयकुटुम्बप्रभवोऽवलगकाः मन्त्रिणः प्रतीताः, महामन्त्रिणो मन्त्रिमण्डलप्रधानाः, हस्तिसाधनोपरिका इति वृद्धाः, गणका-ज्योतिषिकाः, भाण्डागारिका इति वृद्धाः, दौवारिकाः-प्रतीहाराः राजदौवारिका वा, अमात्या-राज्याधिष्ठायकाः, चेटाः-पादमूलिकाः, पीठमर्दाः-आस्थाने आस४॥ नासन्नसेवकाः, वयस्या इत्यर्थः, नगर-नगरवासिप्रकृतयः, निगमाः-कारणिकाः वणिजो वा, श्रेष्ठिनः-श्रीदेवताध्यासि तसौवर्णपट्टविभूषितोत्तमाङ्गाः, सेनापतयो-नृपतिनिरूपितचतुरङ्गसैन्यनायकाः, सार्थवाहाः-सार्थवाहकाः, दूता-अन्येषां S Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy