________________
औपपातिकम्
॥ १३ ॥
तत्र
| लाससललिय संलावणिउणजुत्तोवयारकुसला' सङ्गता - उचिता गतहसितभणितविहितविलासा यस्याः सा तथा, | विहितं चेष्टितं विलासो-नेत्रचेष्टा, तथा सह ललितेन - प्रसन्नतया ये संलापाः- परस्परभाषणलक्षणास्तेषु निपुणा या सा तथा, | तथा युक्ताः - सङ्गता ये उपचारा - लोकव्यवहारास्तेषु कुशला या सा तथा, ततः पदत्रयस्य कर्मधारयः क्वचिदिदमन्यथा दृश्यते - 'सुंदरथणजघणवयणकरचरणनयणलावण्णविलासकलिया' व्यक्तमेव, नवरं जघनं - पूर्वकटीभागः लावण्यम्आकारस्य स्पृहणीयता विलासः - स्त्रीणां चेष्टाविशेषः, आह च - " स्थानासनगमनानां हस्तवनेत्रकर्मणां चैव । उत्पद्यते विशेषो यः श्लिष्टः स विलासः स्यात् ॥ १ ॥” इति । तथा 'कोणिएणं रण्णा सद्धिं अगुरत्ता अविरत्ता इट्ठे सद्दफरिसरसरूवगंधे पंचविहए माणुस्सए कामभोए पञ्चणुब्भवमाणी विहरति' व्यक्तमेव, नवरं अनुरक्ता - अविरक्ता, अनुरज्य न विप्रियेऽपि विरक्ततां गतेत्यर्थः ॥ ७ ॥
तस्स णं कोणअस्सरण्णो एक्के पुरिसे विउलकयवित्तिए भगवओ पवित्तिवाउए भगवओ तद्देवसिअं पवित्ति गिवेएइ, तस्स णं पुरिसस्स बहवे अण्णे पुरिसा दिण्णभतिभत्तवेअणा भगवओ पवित्तिवाउआ भगवओ तद्देवसियं पवित्तिं णिवेदेति ॥ ( सू० ८ ) ॥
'तस्स ण' मित्यादौ 'विलकयवित्तिए'त्ति विहितप्रभूतजीविक इत्यर्थः, वृत्तिप्रमाणं चेदम् - अर्द्धत्रयोदशरजतसहस्राणि, यदाह - " मंडलियाण सहस्सा पीईदाणं सय सहस्सा " । 'पवित्तिवाउए' त्ति प्रवृत्ति व्यापृतो - वार्ता व्यापारवान् वार्तानिवेदक १ माण्डलिकानां सहस्राणि प्रीतिदानं शतसहस्राणि ( आगमने ) ।
Jain Education International
For Personal & Private Use Only
धारिणीव०
सू० ७
॥ १३ ॥
wwww.jalnelibrary.org