SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ च-रजोहरणादिना सामान्याः-साधुतुल्या इति १९ । 'धम्मिय'त्ति धर्मेण-श्रुतचारित्ररूपेण चरन्ति ये ते धार्मिकाः, कुत एतदेवमित्यत आह-'धम्माणुत्ति धर्म-श्रुतरूपमनुगच्छन्ति ये ते धर्मानुगाः, कुत एतदेवमित्यत आह-'धम्मि' त्ति धर्मः श्रुतरूप एवेष्टो-वल्लभः पूजितो वा येषां ते धर्मेष्टाः धर्मिणां वेष्टाः धर्मीष्टाः अथवा धर्मोऽस्ति येषां ते धर्मिणः त एव चान्येभ्योऽतिशयवन्तो धर्मिष्ठाः, अत एव 'धम्मक्खाइत्ति धर्ममाख्यान्ति भव्यानां प्रतिपादयन्तीति धर्माख्यायिनः |धर्माद्वा ख्यातिः-प्रसिद्धिर्येषां ते धर्मख्यातयः, 'धम्मपलोइय'त्ति धर्म प्रलोकयन्ति-उपादेयतया प्रेक्षन्ते पापण्डिषु वा गवेषयन्तीति धर्मप्रलोकिनः, धर्मगवेषणानन्तरं वा 'धम्मपलज्जण'त्ति धर्मे प्ररज्यन्ते-आसज्यन्ते ये ते धर्मप्ररज्यनाः, ततश्च 'धर्मसमुदाचार'त्ति धर्मरूपचारित्रात्मकः समुदाचारः-सदाचारः सप्रमोदो वाऽऽचारो येषां तेधर्मसमुदाचाराः, अत एव 'धम्मेण चेव वित्तिं कप्पेमाण'त्ति धर्मेणैव-चारित्राविरोधेन श्रुताविरोधेन वा वृत्तिं-जीविकां कल्पयन्तः-कुर्वाणा विहरन्तीति योगः, 'सुव्वय'त्ति सद्वताः शोभनचित्तवृत्तिवितरणावा, 'सुप्पडियाणंदा साहूहिति सुष्ठु प्रत्यानन्दः-चित्ताहादो | येषां ते सुप्रत्यानन्दाः साधुषु-विषयभूतेषु अथवा साहूहिंति उत्तरवाक्ये सम्बध्यते, ततश्च साधुभ्यः सकाशातू साध्वन्तिके इत्यर्थः, 'एगच्चाओ पाणाइवायाओ'त्ति एकस्मात् न सर्वस्मात् पाठान्तरे 'एगइयाओत्ति तत्र एकक एव एककिकः तस्मादेककिकात्, इत इदं सूत्रं प्रायः प्रागुक्तार्थ नवरं 'मिच्छादसणसल्लाओ'त्ति इह मिथ्यादर्शनं-तजन्यान्ययूथि| कवन्दनादिका क्रिया ततो भावतो विरताः राजाभियोगादिभिस्त्वाकारैरविरता इति, 'कुट्टणपिट्टणतजणतालणवहबंधप8 रिकिलेसाओ'त्ति कुट्टनं-खदिरादेरिव छेदविशेषकरणं पिट्टन-वस्त्रादेरिव मुद्गरादिना हननं तर्जनं-परं प्रति ज्ञास्यसि रे Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy