________________
जीवोप०
औपपातिकम्
सू०४१
॥१०६॥
मिकाः, भुजो भुजो कोउगकारग'त्ति भूयो भूयः-पुनः पुनः कौतुकं-सौभाग्यादिनिमित्तं परेषां स्नपनादि तत्कर्तारः कौतुकका- रकाः 'आभिओगिएसुत्ति अभियोगे-आदेशकर्मणि नियुक्ता आभियोगिका आदेशकारिण इत्यर्थः, एतेषां च देवत्वं | चारित्रादाभियोगिकत्वं चात्मोत्कर्षादेरिति १८ । बहुषु समयेषु रता-आसक्ताः बहुभिरेव समयैः कार्य निष्पद्यते नैकसम-18 येनेत्येवंविधवादिनो बहुरताः-जमालिमतानुपातिनः, 'जीवपएसित्ति जीवः प्रदेश एवैको येषां मतेन ते जीवप्रदेशाः, एकेनापि प्रदेशेन न्यूनो जीवो न भवत्यतो येनकेन प्रदेशेन पूर्णः सन् जीवो भवति स एवैकः प्रदेशो जीवो भवतीत्ये
वंविधवादिनस्तिष्यगुप्ताचार्यमताविसंवादिनः 'अबत्तिय'त्ति अव्यक्तं समस्तमिदं जगत् साध्वादिविषये श्रमणोऽयं देवो है वाऽयमित्यादिविविक्तप्रतिभासोदयाभावात्ततश्चाव्यक्तं वस्त्विति मतमस्ति येषां ते अव्यक्तिकाः, अविद्यमाना वा साध्या| दिव्यक्तिरेषामित्यव्यक्तिकाः आषाढाचार्यशिष्यमतान्तःपातिनः 'सामुच्छेइय'त्ति नारकादिभावानां प्रतिक्षणं समुच्छे| दं-क्षयं वदन्तीति सामुच्छेदिकाः अश्वमित्रमतानुसारिणः 'दोकिरिय'त्ति द्वे क्रिये-शीतवेदनोष्णवेदनादिस्वरूपे एकत्र
समये जीवोऽनुभवतीत्येवं वदन्ति ये ते द्वैक्रिया गणाचार्यमतानुवर्तिनः 'तेरासिय'त्ति त्रीन् राशीन् जीवाजीवनोजीव| रूपान् वदन्ति ये ते त्रैराशिकाः रोहगुप्तमतानुसारिणः, 'अवद्धियत्ति अबद्धं सत्कर्म कझुकवत्पार्वतः स्पृष्टमात्रं जीवं समनुगच्छन्तीत्येवं वदन्तीत्यबद्धिकाः गोष्ठामाहिलमतावलम्बिनः, उपलक्षणं चैतत् सक्रियावर्तिव्यापन्नदर्शनानामन्येपामपीति, 'पवयणनिण्यत्ति प्रवचन-जिनागमं निहुवते-अपलपन्त्यन्यथा तदेकदेशस्याभ्युपगमात्ते प्रवचननिह्नवकाः, केवलं 'चरियालिंगसामण्णा मिच्छादिट्ठी'त्ति मिथ्यादृष्टयस्ते विपरीतबोधाः नवरं चर्यया-भिक्षाटनादिक्रियया लिङ्गेन |
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org