SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ णाइए शुकादीनां सारसान्तानामनेकेषां शकुनगणानां मिथनैर्विरचितं शब्दोन्नतिक च-उन्नतिशब्दकं मधुरस्वरं च नादितंलपितं यस्मिन् स तथा, वनखण्ड इति प्रकृतम् । 'सुरम्म' अतिशयरमणीयः। 'संपिंडियदरियभमरमहुकरिपहकरपरिलिन्तमत्तछप्पयकुसुमासवलोलमहुरगुमगुमंतगुंजंतदेसभागे' संपिण्डिताः दृप्तानां भ्रमरमधुकरीणां वनसत्कानामेव पहक| रत्ति-निकरा यत्र स तथा, परिलीयमाना-अन्यत आगत्य लयं यान्तो मत्तषट्पदाः कुसुमासवलोला:-किञ्जल्कलम्पटाः मधुरं गुमगुमायमानाः गुञ्जन्तश्च-शब्दविशेषं विदधानाः देशभागेषु यस्य स तथा, ततः कर्मधारयः । 'अब्भन्तरपुष्फफले बाहिरपत्तोच्छण्णे पत्तेहि य पुप्फेहि य उच्छण्णपडिवलिच्छण्णे अत्यन्तमाच्छादित इत्यर्थः, एतानि त्रीण्यपि क्वचिदृक्षाणां विशेषणानि दृश्यन्ते-'साउफले'त्ति मिष्टफलः, 'निरोयए'त्ति रोगवर्जितः, 'अकण्टक' इति । क्वचित् 'णाणाविहगुच्छगुम्ममंडवगरम्मसोहिए'त्ति तत्र गुच्छा-वृन्ताक्यादयो गुल्मा-नवमालिकादयो मण्डपका-लतामण्डपादयः 'रम्मे'त्ति क्वचिन्न दृश्यते । 'विचित्तसुहकेउभूए' विचित्रान् शुभान केतून-ध्वजान भूतः-प्राप्तः । 'विचित्तसुहसेउकेउबहुले'त्ति || पाठान्तरं, तत्र विचित्राः शुभाः सेतवः-पालिबन्धा यत्र केतुबहुलश्च यः स तथा । 'वावीपुक्खरिणीदीहियासु य सुनिवेसियरम्मजालहरए' वापीषु-चतुरस्रासु पुष्करिणीषु-वृत्तासु पुष्करवतीषु वा दीर्घकासु च-ऋजुसारणीषु सुष्ठु निवेशितानि रम्याणि जालगृहकाणि यत्र स तथा । पिंडिमणीहारिमसुगंधिसुहसुरभिमणहरं च महया गंधद्धणि मुयंता णाणाविहगुच्छगुम्ममंडवकघरकसु. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy