SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ औपपा तिकम् SCARRORGANA अधोमुखपलाशाः, अवातीनपत्रा वा-अवातोपहतबहाः । 'अणईयपत्ता' ईतिविरहितच्छदाः । 'निद्धयजरढपंडुपत्ता'लावनषण्डा अपगतपुराणपाण्डुरपत्राः।'णवहरियभिसंतपत्तभारंधकारगंभीरदरिसणिज्जा' नवेन हरितेन भिसंतत्ति-दीप्यमानेन पत्रभारेण-दलचयेनान्धकारा-अन्धकारवन्तः अत एव गम्भीराश्च दृश्यन्ते ये ते तथा । 'उवणिग्गयणवतरुणपत्तपल्लवको सू०३ मलउज्जलचलंतकिसलयसुकुमालपवालसोहियवरंकुरग्गसिहरा उपनिर्गतैर्नवतरुणपत्रपल्लवैः-अत्यभिनवपत्रगुच्छै तथा कोमलोज्ज्वलैश्चलद्भिः किशलयैः-पत्रविशेषैः तथा सुकुमारप्रवालैः शोभितानि वराङ्कुराणि अग्रशिखराणि येषां ते तथा । इह च अङ्कुरप्रवालपल्लवकिसलयपत्राणामल्पबहुबहुतरादिकालकृतावस्थाविशेषाद्विशेषः सम्भाव्यत इति । णिच्चं कुसुमिया' इत्यादि व्यकं, नवरं 'माइय'त्ति मयूरिताः 'लवइयत्ति पल्लविताः 'थवइय'त्ति स्तबकवन्तः 'गुलइया' गुल्मवन्तः | 'गोच्छिया' जातगुच्छाः, यद्यपि च स्तबकगुच्छयोरविशेषो नामकोशेऽधीतस्तथाऽपीह पुष्पपत्रकृतो विशेषो भावनीयः,|8| | 'जमलिय'त्ति यमलतया-प्तमश्रेणितया व्यवस्थिताः, 'जुवलिय'त्ति युगलतया स्थिताः, 'विणमिय'त्ति विशेषेण फलपुष्पभारेण नताः, 'पणमिय'त्ति तथैव नन्तुमारब्धाः, प्रशब्दस्यादिकार्थत्वात् । 'णिच्चं कुसुमियमाइयलवइयथवइयगुलइयगोच्छियजमलियजुवलियविणमियसुविभत्तपिंडिमंजरिवडिंसयधर त्ति केचित् कुसुमिताद्येकैकगुणयुक्ताः अपरे तु समस्तगुणयुक्ताः, ततः कुसुमिताश्च ते इत्येवं कर्मधारयः, नवरं सुविभक्ताः-सुविविक्ताः सुनिष्पन्नतया पिण्ड्यो-लुम्ब्यो मञ्जर्यश्च प्रतीतास्ता एव अवतंसकाः-शेखरकास्ता धारयन्ति येते तथा । 'सुयवरहिणमयणसालकोइलकोहंगकभिंगार||ककोंडलकजीवंजीवकनंदीमुहकविलपिंगलक्खकारंडचक्कवायकलहंससारसअणेगसउणगणमिहुणविरइयसहुण्णइयमहुरसर Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy