SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ 'ते णं पायवत्ति यत्संबन्धाद् वनखण्ड इति । 'मूलमन्तो कन्दमन्तो' इत्यादीनि दश पदानि, तत्र कन्दो-मूलानामुपरि वृक्षावयवविशेषो, मतुप्प्रत्ययश्चेह भूम्नि प्रशंसायां वा। स्कन्धः-स्थुडं । 'तय'त्ति त्वक् वल्कलं शाला-शाखा प्रवाल:पल्लवाङ्करः, शेषाणि प्रतीतानि । 'हरियमन्ते'त्ति क्वचिद् दृश्यते, तत्र हरितानि-नीलतरपत्राणि । 'अणुपुवसुजायरुइलवभावपरिणय'त्ति आनुपूर्येण-मूलादिपरिपाट्या सुष्टु जाता रुचिराः वृत्तभावैश्च परिणताः परिगता वा ये ते तथा। 'अणेगसाहप्पसाहविडिमा' अनेकशाखाप्रशाखो विटपः-तन्मध्यभागो वृक्षविस्तारो वा येषां ते तथा । 'अणेगनरवामसुप्प| सारियअग्गेज्झघणविउलवट्ट(बद्ध)खंधे'त्ति अनेकाभिर्नरवामाभिः सुप्रसारिताभिरग्राह्यो घनो-निबिडो विपुलो-विस्तीर्णो बद्धो-जातः स्कन्धो येषां ते तथा, वाचनान्तरेऽत्र स्थानेऽधिकपदान्येवं दृश्यन्ते-पाईणपडिणाययसाला उदीणदाहिणविच्छिण्णा ओणयनयपणयविप्पहाइयओलंबपलंबलंवसाहप्पसाहविडिमा अवाईणपत्ता अणुईण्णपत्ता' इति, अयमर्थः-प्राचीनप्रतीचीनयोः-पूर्वापरदिशोरायता-दीर्घाः शालाः-शाखा येषां ते तथा, उदीचीनदक्षिणयोः-उत्तरयाम्ययोर्दिशोविस्तीर्णाविष्कम्भवन्तो येषां ते तथा, अवनता-अधोमुखा नता-आनम्राः प्रणताश्च-नन्तुं प्रवृत्ताः विप्रभाजिताश्च विशेषतो विभागवत्यः अवलम्बा-अधोमुखतया अवलम्बमानाः प्रलम्बाश्च-अतिदीर्घाः (लम्बाः) शाखाः प्रशाखाश्च-यस्मिन् स तथाविधो विटपो येषां ते तथा, अवाचीनपत्रा:-अधोमुखपर्णाः अनुद्गीर्णपत्रा:-वृत्ततया अबहिर्निर्गतपर्णाः । अथाधिकृ|तवाचनाऽनुश्रि (नि) यते-'अच्छिद्दपत्ता' नीरन्ध्रपत्राः। 'अविरलपत्ता' निरन्तरदलाः । 'अवाईणपत्ता' अवाचीनपत्रा १ वृक्षावयवविशेषो वेति प्र० । 56 For Personal & Private Use Only Jain Education International www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy