________________
विषयपरतन्त्रतां ऋता-गता वशार्तास्ते सन्तो ये मृतास्ते वशार्तमृता वशर्तमृता वा शब्दादिरक्तहरिणादिवदिति 'णियाणमयगत्ति निदानं कृत्वा बालतपश्चरणादिमन्तो ये मृतास्ते तथा 'अंतोसल्लमयग' त्ति अनुद्धृतभावशल्या मध्यवर्तिभल्लयादिशल्या वा सन्तो ये मृताः 'गिरिपडियग'त्ति गिरे:- पर्वतात्पतिताः गिरिर्वा - महापाषाणः पतितो येषामुपरि ते तथा, एवं तरुपतितकाः, 'मरुपडियग' त्ति मरौ - निर्जलदेशे पतिता ये ते तथा, मरोर्वा - निर्जलदेशावयवविशेषात् स्थलादित्यर्थः पतिता ये ते तथा, 'भरपडियग'त्ति क्वचित्तत्र भरात् - तृणकर्पासादिभरात्पतिता भरो वा पतितो येषामुपरि ते तथा, 'गिरिपक्खंदोलया' गिरिपक्षे-पर्वतपार्श्वे छिन्नटङ्कगिरौ वाऽऽत्मानमन्दोलयन्ति ये ते तथा तेषां च तदन्दोलनमन्दोलका - त्पातेनात्मनो मरणार्थम्, एवं तरुपक्षान्दोलकादयोऽपीति, 'सत्थोवाडियग'त्ति शस्त्रेणात्मानमवपाटयन्ति - विदारयन्ति मरणार्थं ये ते तथा, 'वे हाणसिग'त्ति विहायसि - आकाशे तरुशाखादावात्मन उल्लम्बनेन यन्मरणं भवति तद्वैहायसं तदस्ति येषां ते प्राकृतशैलीवशात् वेहाणसिया, 'गिद्धपट्ठग' त्ति ये मरणार्थं पुरुषकरिकरभरासभादिकलेवरमध्ये निपतिताः सन्तो गृधैः स्पृष्टास्तुण्डैर्विदारिता म्रियन्ते ते गृध्रस्पृष्टकाः 'असं किलिङपरिणाम'त्ति संक्लिष्टपरिणामा हि महार्तरौद्रध्यानावेशेन देवत्वं न लभन्त इति भावः ६ ।
से जे इमे गामागरणयरणिगमरायहाणिखेडकब्बड मडंबदोणमुह पट्टणासमसंवाहसंनिवेसेसु मणुआ भवंति, | तंजहा - पगइभदगा पगउवसंता पगइपतणुकोह माणमायालोहा मिउमद्दवसंपण्णा अल्लीणा विणीआ अम्मा| पिउसुस्सूसका अम्मापिईणं अणतिकमणिज्जवयणा अपिच्छा अप्पारंभा अप्पपरिग्गहा अप्पेणं आरंभेणं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org