________________
औपपातिकम् ॥ ८५ ॥
क्खायपावकम्मै' असंयतः - असंयमवान् अविरतः - तपसि न विशेषेण रतः, अथवा कस्मादसंयतो ?, यस्मादविरतो - विरतिवर्जितः, तथा न प्रतिहतानि सम्यक्त्वप्रात्या इस्वीकृतानि प्रत्याख्यातानि च सर्वविरतिप्रतिपत्तितः प्रतिषेधितानि पापकर्माणि - ज्ञानावरणादीनि येन स तथा, अथवा प्रतिहतानि अतीतकालकृतानि निन्दाद्वारेण प्रत्याख्यातानि अनागतका - लभावीनि निवृत्तितः पापकर्माणि - प्राणातिपातादिपापक्रिया येन स तथा तन्निषेधेनाप्रतिहतप्रत्याख्यातपापकर्मा, ततः पूर्वपदाभ्यां सह कर्मधारयः, अत एव 'सकिरिए' सक्रियः - कायिक्यादिक्रियायुक्तः 'असंवुडे' असंवृतः - अनिरुद्धेन्द्रियः 'एगं तदंडे' एकान्तेनैव सर्वथैव दण्डयत्यात्मानं परं वा पापप्रवृत्तितो यः स एकान्तदण्डः, 'एगंतबाले' सर्वथा मिथ्यादृष्टिः, अत एव 'एगंतसुत्ते' सर्वथा मिथ्यात्वनिद्रया प्रसुप्तः 'पापकर्म ' ज्ञानावरणाद्यशुभं कर्म ' अण्हाइ' आस्नौति - आश्रवति बनातीत्यर्थः, हन्तेति कोमलामन्त्रणे प्रत्यवधारणार्थो वा, 'अण्हाइ'त्ति आस्त्रौत्येव वनात्येवेत्युत्तरं, न ह्यसंयतादिविशेपण जीवः कस्याश्चिदवस्थायां कर्म न बनातीति १ । तृतीयसूत्रे 'णण्णत्थ चरिममोहणिज्जं कम्मं वेदेमाणे वेअणिज्जं कम्मं बंधड़ णो मोहणिज्जं 'ति नन्नत्थत्ति - नवरं केवलमित्यर्थः, चरममोहनीयं सूक्ष्मसम्परायगुणस्थानके लोभमोहनीयसूक्ष्मकिट्टिकारूपं वेदयन् वेदनीयं बध्नाति, अयोगिन एव वेदनीयस्याबन्धकत्वात्, न पुनर्मोहनीयं बनाति, सूक्ष्मसम्परायस्य | मोहनीयायुष्कवर्जानां षण्णामेव प्रकृतीनां बन्धकत्वात्, यदाह - "सत्तविहबंधगा होंति पाणिणो आउवज्जियाणं तु । तह १ सप्तविधन्धा भवन्ति प्राणिन आयुर्वर्ज्यानामेव । तथा सूक्ष्मसम्परायाः षडिधबन्धका विनिर्दिष्टाः || १ || मोहायुर्वर्ज्यानां प्रकृतीनां ते तु बन्धका भणिताः ।
Jain Education International
For Personal & Private Use Only
उपपात ०
सू० ३८
॥ ८५ ॥
www.jainelibrary.org