SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ उपपात० औपपातिकम् सू०३८ ॥८४॥ उहित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छति तेणेव उवागच्छित्ता समणं भगवं महावीर तिक्खुत्तो आयाहिणं पयाहिणं करेति तिक्खुत्तो आयाहिणं पयाहिणं करेत्ता वंदति णमंसति वंदित्ता णमंद | सित्ता णचासण्णे णाइदूरे सुस्सूसमाणे णमंसमाणे अभिमुहे विणएणं पंजलिउडे पजवासमाणे एवं वासी। ___ 'जायसडे' जाता-प्रवृत्ता श्रद्धा-इच्छाऽस्येति जातश्रद्धः, व ?-वक्ष्यमाणानां पदार्थानां तत्त्वपरिज्ञाने, 'जायसंसए'। जातः संशयोऽस्येति जातसंशयः, संशयस्त्वनिर्धारितार्थ ज्ञानमुभयवस्त्वंशावलम्बितया प्रवृत्तं, स त्वेवं तस्य भगवतो जातः, यथा-श्रीमन्महावीरवर्द्धमानस्वामिना प्रथमाङ्गप्रथमश्रुतस्कन्धप्रथमाध्ययने प्रथमोद्देशके आत्मन उपपात उक्तः, स किमसत एवात्मनः उत सतः परिणामान्तरापत्तिरूपः, 'जायकोउहल्ले' जातं कुतूहलं-कौतुकं यस्य स तथा, कीदृशमुपपातं भगवान्वक्ष्यतीत्येवंरूपजातश्रवणोत्सुक्य इत्यर्थः, 'उप्पन्नसड्डे' प्रागभूता उत्पन्ना श्रद्धा यस्य स उत्पन्नश्रद्धः, अथोत्पन्नश्रद्धत्वस्य जातश्रद्धत्वस्य च कोऽर्थभेदो ?, न कश्चिद्, अथ किमर्थं तत्प्रयोगः ?, उच्यते, हेतुत्वप्रदर्शनार्थः, तथाहि-उत्पन्न-| श्रद्धत्वाजातश्रद्धः प्रवृत्तश्रद्ध इत्यर्थः, 'संजायसड्डे' इत्यादौ च संशब्दः प्रकर्षादिवचनः, अपरस्त्वाह-जाता श्रद्धा प्रष्टं | यस्य स जातश्रद्धः, कथं जातश्रद्धो ?, यस्माजातसंशयः, कथं संशयः अजनि ?, यस्मात् प्राक्कुतूहलं-किंविधो नामायमुपंपातो भविष्यतीत्येवंरूपमित्येष तावदवग्रहः, एवमुत्पन्नसञ्जातसमुत्पन्नश्रद्धादय ईहापायधारणाभेदेन वाच्या इति में उपोद्घातग्रन्थो व्याख्यातः। 'जीवे णं भंते ! असंजए अविरए अप्पडिहयपचक्खायपावकम्मे सकिरिए असंवुडे एगंतदंडे एगंतवाले ८४॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy