________________
5054454
स तथा, 'तत्ततवे' तप्तं-तापितं तपो येन स तप्ततपाः, एवं तेन तत्तपस्तप्तं येन कर्माणि सन्ताप्य तेन तपसा स्वात्माऽपि * तपोरूपः सन्तापितो, यतोऽन्यस्यास्पृश्यमिव जातमिति, 'महातवें महातपाः प्रशस्ततपाः बृहत्तपा वा 'ओराले'त्ति भीमः
कथम् ?-अतिकष्टं तपः कुर्वन् पार्श्ववर्तिनामल्पसत्त्वानां भयानको भवति, अपरस्त्वाह-'ओराले'त्ति उदार:-प्रधान: 'घोर'त्ति घोरो-निघृणः परीपहेन्द्रियकपायाख्यानां रिपूणां विनाशे कर्तव्ये, अन्ये त्वात्मनिरपेक्षं घोरमाहुः, 'घोरगुणों। घोराः-अन्यैर्दुरनुचरा गुणाः-मूलगुणादयो यस्य स तथा, 'घोरतवस्सी' घोरैस्तपोभिस्तपस्वी 'घोरबंभचेरवासी' घोरं-दारुणमल्पसत्त्वैर्दुरनुचरत्वाद्यद् ब्रह्मचर्य तत्र वस्तुं शीलं यस्य स तथा, 'उच्छूढसरीरे' उच्छूढम्-उज्झितमिवोज्झितं शरीरं येन तत्संस्कारत्यागात् स तथा, 'संखित्तविउलतेयलेस्से' संक्षिप्ता-शरीरान्तींना विपुला च विस्तीर्णा अनेकयोजनप्रमाणक्षेत्राऽऽश्रितवस्तुदहनसमर्थत्वात् तेजोलेश्या-विशिष्टतपोजन्यलब्धिविशेषप्रभवा तेजोज्वाला यस्य स तथा, 'ऊहूंजाणू' शुद्धपृथिव्यासनवर्जनात् औपग्रहिकनिषद्याया अभावाच्च उत्कुटुकासनः सन्नपदिश्यते, ऊर्चे जानुनी यस्य स ऊर्ध्वजानुः, | 'अहोसिरे' अधोमुखो नोर्ध्व तिर्यग्वा निक्षिप्तदृष्टिरिति भावः, 'झाणकोहोवगए' ध्यानमेव कोष्ठो ध्यानकोष्ठस्तमुपगतो यः स तथा, यथा हि कोष्ठके धान्यं प्रक्षिप्तमविप्रकीर्ण भवत्येवं स भगवान् धर्मध्यानकोष्ठकमनुप्रविश्येन्द्रियमनांस्यधिकृत्य संवृतात्मा भवतीति भावः।
तए णं से भगवं गोअमे जायसढे जायसंसए जायकोऊहल्ले उप्पण्णसड्ढे उप्पण्णसंसए उप्पण्णकोउहल्ले संजायसढे संजायसंसए संजायकोऊहल्ले समुप्पण्णसड्डे समुप्पण्णसंसए समुप्पण्णकोऊहल्ले उठाए उठेइ उठाए
R
E
dan Education International
For Personal & Private Use Only
www.jainelibrary.org