SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ RAHARASHTRA स्तत्सम्बस्धिजीवस्य स्वभाषाया-निजभाषायाः सम्बन्धिना परिणामेन-स्वरूपेण परिणमति-वर्तते । यादृशं धर्म कथयति तदर्शनार्थमाह-'तंजहे'त्यादि, अस्थि लोए इत्यादि कल्लाणपावए' इत्येतदन्तं,सुगम, नवरं लोकः-पञ्चास्तिकायमयः अलोकःकेवलाकाशरूपः, अनयोश्चास्तित्वाभिधानं शून्यवादनिरासार्थ, तन्निरासोपपत्तिश्च ग्रन्थान्तरावगम्या, एवं प्रायेणोत्तरत्रापि, 'अत्थिं जीवा' अस्तीति क्रियावचनप्रतिरूपको निपातो बहुवचनार्थो द्रष्टव्यः, इदं च लोकायतमतनिषेधार्थमुक्तम् , 'अस्थि अजीव'त्ति पुरुषाद्वैतादिवादनिषेधार्थम् , 'अस्थि बंधे अस्थि मोक्खे'त्ति बन्धः कर्मणा जीवस्य मोक्षः-सकलकर्मवियोगः तस्यैव, एतच्च द्वयं “संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिरेव, नात्मे"त्येवंविधसाजयमतनिषेधार्थमिति, 'अस्थि पुण्णे अत्थि पावे'त्ति पापमेवापचीयमानमुपचीयमानं च सुखदुःखनिवन्धनं न पुण्यं कर्मास्ति, पुण्यमेव चोपचीयमानमपचीयमानं च सुखदुःखहेतुर्न पापमस्तीत्येवंविधवाद निरासार्थमुक्तं जगद्वैचित्र्यनिबन्धनकेवलस्वभाववादनिरासार्थ वा, 'अस्थि आसवे अत्थि संवरे' कर्मबन्धहेतुराश्रवः आश्रवनिरोधः संवरः, एतच्च बन्धमोक्षयोर्निष्कारणत्वप्रतिषेधार्थ वीर्यप्राधान्यख्यापनार्थ वा, 'अत्थि वेयणा अत्थि णिज्जरा' वेदना-कर्मणोऽनुभवनं पीडा वा निर्जरा-देशतः कर्मक्षयः, एतच्च 'नाभुक्तं क्षीयते कमें' त्येतत्प्रतिपादनार्थम् , अहंदादिचतुष्कसत्ताभिधानं तु तद्भवनातिशायित्वमश्रद्दधतां तच्छ्रद्धोत्पादनार्थ, नरकनैरयिकास्तित्वप्रतिपादनं च प्रमाणाग्राह्यत्वात्ते न सन्तीति मतनिषेधार्थ, तिर्यगाद्यस्तित्वप्रतिपादनं तु प्रत्य| क्षप्रमाणस्य भ्रान्तत्वात् कुवासनाजन्योऽयं तिर्यगादिप्रतिभासो न तत्सत्तानिवन्धन इति ये मन्यन्ते तन्मतनिषेधार्थ, |मातापितृसत्ताभिधानं तु ये मन्यन्ते-योऽयं मातापितृव्यपदेशः स जनकत्वकतो जनकत्वाच्च यूकाकृमिगण्डोलकादान Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy