SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ | सव्वक्खरसण्णिवाइयाए पुण्णरत्ताए सव्वभासाणुगामिणीए सरस्सइए जोयणणीहारिणा सरेणं अडमागहाए | भासाए भासति अरिहा धम्मं परिकहे । 'तीसे य महइमहालियाए' तस्याश्च महातिमहत्याः, गुरुकाणां मध्येऽतिगुरुकाया इत्यर्थः, 'इसिपरिसाए'त्ति पश्यन्तीति ऋषयस्त एव परिषत् - परिवारः ऋषिपरिषत्तस्या अतिशयज्ञानि साधूनामित्यर्थः, धर्मं कथयतीति योगः, 'मुणिपरिसाए' | मौनवत्साधूनां वाचंयमसाधूनामित्यर्थः, 'जइपरिसाए 'त्ति यतन्ते चारित्रं प्रति प्रयता भवन्तीति यतयस्तत्परिषदश्चरणोद्यतसाधूनामित्यर्थः, 'अणेगसयवंदाए'त्ति अनेकानि शतप्रमाणानि वृन्दानि यस्यां सा तथा तस्याः, 'अणेगसयवंद परियालाए' अनेकशतमानानि यानि वृन्दानि तानि परिवारो यस्याः सा तथा तस्याः । किम्भूतो भगवानित्याह- 'ओहबले 'त्ति अव्य| वच्छिन्नवल: 'अइबले' त्ति अतिशयबल: 'महबले 'त्ति प्रशस्तबल: 'अपरिमियवलवीरियते यमाहप्पकंतिजुत्ते' अपरिमितानि - | अनन्तानि यानि बलादीनि तैर्युक्तो यः स तथा तत्र वलं- शारीरः प्राणः वीर्य - जीवप्रभवं तेजो- दीप्तिः माहात्म्यं - महा|नुभावता कान्तिः - काम्यता, 'सारयनवत्थणियमहुरगंभीर कुंच निग्धोसदुंदुभिस्सरे' शारदं - शरत्कालीनं यन्नवस्तनितं - मेघध्वनितं तदिव मधुरो गम्भीरश्च क्रौञ्चनिर्धोपवच्च दुन्दुभेरिव च स्वरो यस्य स तथा किम्भूतया कथया धर्म कथयतीत्याह - | 'उरे वित्थडाए' उरसि विस्तृतया उरसो विस्तीर्णत्वात्, सरस्वत्येति योगः, 'कंठेऽवट्टियाए' गलविवरस्य वर्तुलत्वात् 'सिरे | समाइण्णा' मूर्धनि सङ्कीर्णया आयामस्य मूर्ध्ना स्खलितत्वात् 'अगरलाए’'त्ति सुविभक्ताक्षरतया 'अमम्मणाए 'त्ति अन| पखचयमानतया 'सबक्खरसन्निवाइयाए' सुव्यक्तः अक्षरसन्निपातो-वर्णसंयोगो यस्यां सा तथा तथा 'पुण्णरत्ताए'त्ति पूर्णा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy