________________
यहेसियहत्थिगुलगुलाइयन, सुगंधवरकुसुमणकपिलं तत्तथा नभात
'कंदरगिरिविवरकुहरगिरिवरपासादुद्धघणभवणदेवकुलसिंघाडगतिगचउक्कचच्चरआरामुजाणकाणणसभापवापदेसदेसभागे' | कन्दराणि-दो गिरीणां विवरकुहराणि-गुहाः पर्वतान्तराणि वा गिरिवरा:-प्रधानपर्वताः प्रासादाः-सप्तभूमिकादयः ऊर्ध्वघनभवनानि-उच्चाविरलगेहानि देवकुलानि-प्रतीतानि शृङ्गाटकत्रिकचतुष्कचत्वराणि प्राग्वत् आरामा:-पुष्पजातिप्रधानाः वनषण्डाः उद्यानानि-पुष्पादिमद्वक्षयुक्तानि काननानि-नगराद् दूरवर्तीनि सभा-आस्थायिकाः प्रपा-जलदान| स्थानम् एतेषां ये प्रदेशदेशरूपा भागास्ते तथा तान् , तत्र प्रदेशा-लघुतराभागा देशास्तु-महत्तराः, 'पडिसद्द(डिंसुआ)सयसहस्ससंकुलं करेंति' प्राकृतत्वेन बहुवचनार्थे एकवचनमत्र,ततः प्रतिशब्दलक्षसङ्कलान् कुर्वन् कूणिको निर्गच्छतीति सम्बन्धः, तथा 'हयहेसियहत्थिगुलुगुलाइयरहघणघणसद्दमीसएणं महया कलकलरवेणं जणस्स महुरेण पूरयंते' इत्यत्र नभ इत्यनेन सम्बन्धः, प्रदेशदेशभागान् वेत्यनेन, 'सुगंधवरकुसुमचुण्णउबिद्धवासरेणुकविलं नभं करेंते' सुगन्धीनां वरकुसुमानां चूर्णानां च उविद्धः-ऊर्ध्व गतो यो वासरेणुः-वासकं रजः तेन यत्कपिलं तत्तथा 'नमति नभ आकाशं कुर्वन् , 'कालागुरुकुंदुरुक्कतुरुक्कधूवनिवहेण जीवलोगमिव वासयंते' जीवलोकं वासयन्निव, शेष प्राग्वत् , 'समंतओ खुभियचक्कवालं' सर्वतः क्षुभितानि 2 चक्रवालानि-जनमण्डलानि यत्र निर्गमने तत्तथा तद्यथा भवतीत्येवं निर्गच्छतीत्येवं सम्बन्धः, तथा पउरजणबालवुड्डपमुइयतुरियपहावियविउलाउलबोलबहुलं नभं करेंते' प्रचुरजनाश्च अथवा पौरजनाश्च बालवृद्धाश्च ये प्रमुदितास्त्वरितप्रधाविताश्च
शीघ्रं गच्छन्तस्तेषां व्याकुलाकुलानाम्-अतिव्याकुलानां यो बोलः स बहुलो यत्र तत्तथा तदेवम्भूतं नभः कुर्वन्निति । का अथाधिकृतवाचनाऽनुश्रीयते-'अदूरसामंते' अनिकटासन्ने उचिते देशे इत्यर्थः, 'ठवेइ'त्ति स्थिरीकरोति 'अवहट्ट'त्ति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org