________________
औपपातिकम्
॥ ७३ ॥
'अत्थत्थिया' द्रव्यार्थिनः 'कामत्थिया' मनोज्ञशब्दरूपार्थिनः 'भोगत्थिया' मनोज्ञगन्धरसस्पर्शार्थिनः 'लाभत्थिया' भोजनमात्रादिप्रात्यर्थिनः 'किञ्चिसिया' किल्विषिकाः परविदूषकत्वेन पापव्यवहारिणो भाण्डादयः 'कारोडिकाः' कापालिकाः ताम्बूलस्थगिकावाहका वा 'कारवाहिया' करपीडिता नृपाभाव्यवाहिनो वा 'संखिया' शाङ्खिकाः चन्दनगर्भशङ्खहस्ता | माङ्गल्यकारिणः शङ्खवादका वा 'चक्किया' चाक्रिकाश्चक्रप्रहरणाः कुम्भकारतैलिकादयो वा 'नंगलिया' गलावलम्बित| सुवर्णादिमयलाङ्गलाकारधारिणो भट्टविशेषाः कर्षका वा 'मुहमंगलिया' मुखे मङ्गलं येषामस्ति ते मुखमाङ्गलिका:- चाटुका |रिणः 'वद्धमाणा' स्कन्धारोपित पुरुषाः 'पूसमाणवा' पूष्यमानवा मागधाः 'खंडिअगणा' छात्रसमुदायाः 'ताहिं'ति ताभिविवक्षिताभिरित्यर्थः, विवक्षितत्वमेवाह - 'इट्ठाहिं' इष्यन्ते स्म इतीष्टा- वाञ्छितास्ताभिः, प्रयोजनवशादिष्टमपि किञ्चित्स्वरूपतः कान्तं स्यादकान्तं चेत्यत आह-'कंताहिं' कमनीयशब्दाभिः 'पियाहिं'ति प्रियार्थिभिः 'मणुण्णाहिं' मनसा ज्ञायन्ते सुन्दरतया यास्ता मनोज्ञाः, भावतः सुन्दरा इत्यर्थस्ताभिः 'मणामाहिं' मनसा अम्यन्ते - गम्यन्ते पुनः पुनर्याः सुन्दरत्वातिशयात्ता मनोऽमाः 'मणोभिरामाहिं' ति तत्र मनोऽभिविधिना बहुकालं यावत् रमयन्तीति मनोऽभिरामा अतस्ताभिः, वाचनान्तराधीतमथ प्रायो वाग्विशेषणकदम्बकम् 'उरालाहिं' उदाराभिः शब्दतोऽर्थतश्च 'कल्लाणाहिं' कल्याणाभिः - शुभार्थप्राप्तिसूचिकाभिः 'सिवाहि' उपद्रवरहिताभिः शब्दार्थदूषणरहिताभिरित्यर्थः ' घण्णाहिं' धन्याभिः - धनलम्भिकाभिः 'मंगलाहिं' मङ्गले- अनर्थप्रतिघाते साध्वीभिः 'सस्सिरीयाहिं' सश्रीकाभिः शोभायुक्ताभिः 'हिययगमणिजाहिं' हृदयगमनीयाभिः, सुबोधाभिरित्यर्थः, 'हिययपल्हायणिजाहिं' हृदयप्रह्लादनीयाभिः हृदयगत कोपशोकग्रन्थिविलयनकरीभिरित्यर्थः,
Jain Education International
For Personal & Private Use Only
आशीर्व०
सू० ३१
॥ ७३ ॥
www.jainelibrary.org