________________
औपपा
जालं-जालकोपेता गवाक्षाः किङ्किण्यः-क्षुद्रघण्टिकाः घण्टास्तु-बृहद्घण्टास्तासां यजालं-समूहस्तत्तथा, हेमजालादिभिः । कोणिक० तिकम् परिक्षिप्ताः-परिकरिता येते तथा तेषां, 'बत्तीसतोणपरिमंडियाण ति द्वात्रिंशता तोणैः-भस्त्रकैः परिमण्डिता येते तथा ॥७१॥
तेषां,क्वचित्पठ्यते 'बत्तीसतोरणपरिमंडिया'ति द्वात्रिंशद्विभागं यत्तोरणं तेन परिमण्डिताना, 'सकंकडवडेंसगाणं'सह कङ्कटैःकवचैरवतंसकैश्च-शेखरकैः शिरस्त्राणैर्वा ये ते तथा तेषां, 'सचावसरपहरणावरणभरियजुद्धसज्जाणं' सहचापशरैः-धनुर्बाणैयानि प्रहरणानि-खड्गादीन्यावरणानि च-स्फुरकादीनि तेषां भरिता-भृता अत एव युद्धसज्जाः-रणप्रह्वा येते तथा तेषाम्, 'असिसत्तिकुंततोमरसूललउलभिंडिमालधणुपाणिसजं' अस्यादीनि प्रसिद्धानि नवरं-शक्तिस्त्रिशूलं शूलं त्वेकशूलं लउलोत्ति-लकुटः भिण्डिमालं-रूढिगम्यं, ततः अस्यादीनि पाणी-हस्ते यस्य तत्तथा तच्च तत्सजं च-प्रगुणं युद्धस्येति समासः, 'पायत्ताणीयंति पादातानीक-पदातिकटक (ग्रन्थानं २०००) वाचनान्तरे पुनः 'सन्नद्धबद्धवम्मियकवयाणं' तत्र बद्धं कशाबन्धनात् वर्मितं च-वर्गीकृतं तनुत्राणहेतोः शरीरे नियोजनात् कवचम्-अङ्गरक्षको यैस्ते तथा, सन्नद्धाश्च ते सन्नहन्या बन्धनाद्वद्धवर्मितकवचाश्चेति समासस्तेषाम्, 'उप्पीलियसरासणवट्टियाणं' उत्पीडिता-आरोपितप्रत्यञ्चा शरासनप
ट्टिका-धनुर्यष्टियः, अथवा-उत्पीडिता-बाही बद्धा शरासनपट्टिका-धनुर्दण्डाकर्षणे बाहुरक्षार्थ चर्मपट्टो यैस्ते तथा तेषां, IMI'पिनद्धगेवेजविमलवरवद्धचिंधपट्टाणं'पिनद्धं-परिहितं ग्रैवेयक-ग्रीवाभरणं यैस्ते तथा, विमलो वरो बद्धो शिरसीति गम्यं
चिह्नपट्टो-वीरतासूचको नेत्रादिवस्त्रमयः पट्टो यैस्ते तथा, ततः कर्मधारयोऽतस्तेषां, 'गहियाउहप्पहरणाणं' गृहीतान्यायु-12 धानि-खड्गादीनि प्रहरणाय यैस्ते तथा तेषाम् , अथवा-आयुधान्यक्षेप्याणि प्रहरणानि तु क्षेप्याणीति विशेषः।
RAKESAR
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org