________________
RESS
कलित इति योगः, इह च चामरशब्दस्य नपुंसकलिङ्गात्वेऽपि स्त्रीलिङ्गनिर्देशो लोकरूढेः छान्दसत्वाद्वा न दुष्टः, प्रवरं यगिरिकुहरं-पर्वतनिकुञ्जस्तत्र यद्विचरणं-सश्चरणं तेन सुमुदिता-अतिहृष्टा निरुपहताश्च-उपघातरहिता ये चमरा:
आटव्यगोविशेषास्तेषां यत्पश्चिमशरीरं-देहस्य पश्चिमो भागस्तत्र या सञ्जाता-उत्पन्नाः सङ्गताश्च-अनवद्यास्तास्तथा ताभिः, | 'अमलियसियकमलविमलुजलियरययगिरिसिहरविमलससिकिरणसरिसकलधोयनिम्मलाहिं'अमलितम्-अमर्दितं यत्सितक& मलं-पुण्डरीकं तथा विमल-निर्मलं उज्ज्वलितम्-उद्दीप्तं यद्रजतगिरिशिखरं-वैताब्यगिरिकूटं तथा विमला ये शशिकिर
णास्तत्सदृश्यो यास्तास्तथा ताश्च ताः कलधौतनिर्मलाश्च-रूप्यवदुज्ज्वला इति समासोऽतस्ताभिः, 'पवणाहयचवलललियतरंगहत्थनच्चंतवीइपसरियखीरोदगपवरसागरप्पूरचंचलाहिं' पवनाहताः-वायुप्रेरिताश्चपलाः-तरला ललिता-मनोहरास्त| रङ्गहस्ताः-प्रतनुकल्लोलपाणयस्तैः नृत्यन्निव नृत्यन् यःस तथा वीचयो-महाकल्लोलास्तैः प्रसृतश्च-विस्तारमुपगतः स चासौ क्षीरोदकश्च-क्षीराकारजलः स चासौ प्रवरसागरश्चेति कर्मधारयस्तस्य य उत्पूरः-प्रकृष्टः प्रवाहः स तथा तद्वच्चञ्चला| यास्तास्तथा ताभिः, 'माणससरपरिसरपरिचियावासविसयवेसाहि' इह हंसवधूभिरिव कलित इत्यनेन सम्बन्धः, मानसाभिधानसरसः परिसरे-प्रान्ते परिचितः-पुनः पुनः कृत आवासो-निवासो यकाभिस्तास्तथा ताश्च ता विशदवेषाश्च-धवलाकारा इति कर्मधारयोऽतस्ताभिः, 'कणगगिरिसिहरसंसियाहिं' कनकगिरेः-मेरोरन्यस्य वा यच्छिखरं तत्संसृता यास्तास्तथा ताभिः, 'उवइयउप्पइयतुरियचवलजइणसिग्यवेगाहिं' अवपतितोत्पतितयोः-निपतनोत्पतनयोस्त्वरितचपल:-अत्य|न्तचपलः जविनः-शीघो वेगवतां मध्येऽतिशीघ्रो वेगो-गतिविशेषो यासां तास्तथा ताभिः, 'हंसवधूयाहिं चेव कलिए'
गिरिसिहरसंसियासी-निवासो यकाभिस्व कलित इत्यनेन
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org