________________
औपपातिकम्
शेषे सुखा-सुखहेतुःऋतुसुखा शिवा-निरुपद्रवा या छाया-आतपवारणलक्षणा तया समनुबद्धम्-अनवच्छिन्नं यत्तत्तथा तेन, कोणिक० | 'वेरुलियदंडसजिएणं'ति वैडूर्यमयदण्डे सज्जितं-वितानितं यत्तत्तथा तेन, 'वइरामयवस्थिनिउणजोइयअहसहस्सवरकंचणसलागनिम्मिएण' वज्रमय्यां वस्तौ-शलाकानिवेशनस्थाने निपुणेन शिल्पिना योजिताः-सम्बन्धिताः असहस्सत्ति-अष्टो- सू० ३१ सरसहस्रसङ्ख्याः या वरकाञ्चनशलाकास्ताभिनिर्मितं यत्तत्तथा तेन, 'सुनिम्मलरययसुच्छएण'ति सुनिर्मलो रजतस्य सम्बन्धी सुच्छदः-शोभनप्रच्छादनपटो यत्र तत्तथा तेन, 'निउणोवियमिसिमिसिंतमणिरयणसूरमंडलवितिमिरकरनिग्गयग्गपडिह| यपुणरविपञ्चायडंतचंचलमिरिइकवयं विणिंमुयंतेणं' निपुणेन शिल्पिना निपुणं वा यथा भवति एवं उवियत्ति-परिकमितानि मिसिमिसिंतत्ति-देदीप्यमानानि यानि मणिरत्नानि तानि तथा सूरमण्डलाद्-आदित्यबिम्बात् ये वितिमिरा| हतान्धकाराः करा:-किरणा निर्गतास्तेषां यान्यग्राणि तानि प्रतिहतानि-निराकृतानि पुनरपि प्रत्यापतन्ति च-प्रति
वर्तमानानि यस्माच्चञ्चलमरीचिकवचात्तत्तथा, अथवा सूरमण्डलाद् वितिमिरकराणां निर्गतानामग्रैः प्रतिहतं पुनरपि प्रत्या|पतच्च तच्च तच्चञ्चलमरीचिकवचं च-चपलरश्मिपरिकर इति समासः, निपुणोपितमिसिमिसायमानमणिरत्नानां यत्सूरम४ ण्डलवितिमिरकरनिर्गताग्रप्रतिहतं पुनरपि प्रत्यापतच्चञ्चलमरीचिकवचं यत्तत्तथा तद्विनिर्मुश्चता-विसृजता, 'सपडिदंडेणं' ||8
अतिभारिकतया एकदण्डेन दुर्वहत्वात्सप्रतिदण्डेन, 'धरिजमाणेणं आयवत्तेणं विरायते' इति व्यक्तम् , अधिकृतवाचनायतु चतुश्चामरवालवीजिताङ्ग इति व्यक्तं, वाचनान्तरे तु 'चउहियपवरगिरिकुहरविचरणसुमुइयनिरुवहयचमरपच्छिमसरीरसंजायसंगयाहिं' चउहियत्ति-चतसृभिः, 'ताहिय'त्ति क्वचित् तत्र ताभिश्च तथाविधाभिर्वर्णकवर्णितस्वरूपाभिः चामराभि
dain Educa
For Personal & Private Use Only
www.jainelibrary.org