________________
REG
पिङ्गलं च-कपिशं सुवर्णकम्बिकानिर्मितत्वात् उज्ज्वलं-निर्मलं यत्तत्तथा, अथवा अभ्रम्-अभ्रक पृथिवीकायपरिणामविशेषस्तत्पटलमिव पिङ्गलं च-उज्ज्वलं च यत्तत्तथा तेन, 'अविरलसमसहियचंदमंडलसमप्पभेणं' अविरलं घनशलाकावत्त्वेन समं तुल्यशलाकायोगेन सहियत्ति-संहतमनिम्नोन्नतशलाकायोगात् चन्द्रमण्डलसमप्रभं च यद्दीप्या तत्तथा तेन, 'मंगल| सयभत्तिछेयविचित्तियखिंखिणिमणिहेमजालविरइयपरिगयपेरंतकणगघंटियापयलियकिणिकिणितसुइसुहसुमहुरसद्दालसोहि| एणं' मङ्गलाभिः-माङ्गल्याभिः शतभक्तिभिः-शतसङ्ख्या विच्छित्तिभिः छेकेन-निपुणेन शिल्पिना विचित्रितं यत्तत्तथा, किङ्किणीभिः-क्षुद्रघण्टिकाभिः मणिहेमजालेन च-रत्नकनकजालकेन विरचितेन-कृतेन विशिष्टरतिदेन वा परिगतं-परिवेष्टितं यत्तत्तथा, पर्यन्तेषु-प्रान्तेषु कनकघण्टिकाभिः प्रचलिताभिः किणिकिणायमानाभिः श्रुतिसुखसुमधुरशब्दवतीभिश्च, आलप्रत्ययस्य मत्वर्थीयत्वात् , शोभितं यत्तत्तथा, ततः पदत्रयस्य कर्मधारयोऽतस्तेन, 'सप्पयरवरमुत्तदामलंबंतभूसणेणं' सप्रतराणि-आभरणविशेषयुक्तानि यानि वरमुक्तादामानि-वरमुक्ताफलमालाः लंबंतत्ति-प्रलम्बमानानि तानि भूषणानि | यस्य तत्तथा तेन, 'नरिंदवामप्पमाणरुंदपरिमंडलेणं' नरेन्द्रस्य-तस्यैव राज्ञो वामप्रमाणेन-प्रसारितभुजयुगलमानेन रुन्द| विस्तीर्ण परिमण्डलं-वृत्तभावो यस्य स तत्तथा तेन, 'सीयायववायवरिसविसदोसनासणेण' शीतातपवातवृष्टिविषजन्यदोषाणां शीतादिलक्षणदोषाणां वा विनाशनं यत्तत्तथा तेन, 'तमरयमलबहलपडणधाडणप्पभाकरेण' तमः-अन्धकार | रजो-रेणुर्मल:-प्रतीतः एषां बहलं-धनं यत्पटलं-वृन्दं तस्य धाडनी-नाशनी या प्रभा-कान्तिस्तत्करणशीलं यत्तत्तथा तेन, अथवा-रजोमलतमोबहलपटलस्य धाडने प्रभाकर इव-दिवाकर इव यत्तत्तथा, 'उउसुहसिवच्छायसमणुबद्धेणं' ऋतौ-कालवि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org