SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ | 'अहयमुमहग्घदूसरयणसुसंकुएं' अहतं - मलमूषिकादिभिरनुपदूषितं प्रत्यग्रमित्यर्थः सुमहार्घं च - बहुमूल्यं यद्दृष्यरत्नंप्रधानवस्त्रं तेन संवृतः - परिगतः तद्वा सुष्ठु संवृतं परिहितं येन स तथा, 'सुइमालावण्णगविलेवणे य'त्ति शुचिनी - पवित्रे माला च - कुसुमदाम वर्णकविलेपनं च-मण्डनकारि कुङ्कुमादिविलेपनं यस्य स तथा, चः समुच्चये, यद्यपि वर्णकशब्देन नामकोषे चन्दनमभिधीयते तथापि 'गोसीसचंदणाणुलित्तगत्ते' इत्यनेनैव विशेषणेन तस्योक्तत्वादिह वर्णकश्चन्दनमिति न व्याख्यातम्, 'आविद्धमणिसुवणे'त्ति आविद्धं परिहितं कप्पिय इत्यादि प्राग्वत्, 'पिणद्धगेवेज्जग अंगुलिज्जगललियंगयललियकयाभरणे' पिनद्धानि - बद्धानि ग्रीवादिषु ग्रैवेयकाङ्गुलीयकानि - ग्रीवाभरणाङ्गुल्याभरणानि येन स तथा, ललिता| ङ्गके - ललितशरीरे कृतानि - विन्यस्तानि ललिताभरणानि तदन्यानि येन स तथा ततः कर्मधारयः, अथवा पिनद्धानि - | ग्रैवेयकाङ्गुलीयकानि ललिताङ्गवदेव ललितकचाभरणानि च - मनोज्ञकेशाभरणानि पुष्पादीनि येन स तथा, 'वरकडगतुडियर्थभियभुए' वरकटकतुटिकैः - प्रधान हस्ताभरणवाह्वाभरणविशेषैर्वहुत्वात्तेषां तैः स्तम्भिताविव स्तम्भितौ भुजौ यस्य स तथा, ' अहियरुवसस्सिरीए' अधिकरूपेण सश्रीकः - सशोभो यः स तथा, 'मुद्रिकापिङ्गलाङ्गलीक' इति क्वचिद्दृश्यते, 'कुण्डलोद्योतिताननो मुकुटदीप्तशिरस्कः' इति प्रतीतं, 'हारोत्थयसुकयरइयवच्छे' हारावस्तृतेन - हारावच्छादनेन सुष्ठु कृतरतिकं वक्ष-उरो यस्य स तथा, 'पालंबलंबमाणपड सुकयउत्तरिजे' प्रलम्बेन - दीर्घेण प्रलम्बमानेन च-झुम्बमानेन पटेन सुष्ठु कृतमुत्तरीयम् - उत्तरासङ्गो येन स तथा, 'णाणामणिकणगरयण विमलमहरिहणिउणोवियमिसिमि संत विरइयसु Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy