SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ औपपातिकम् ॥ ६५ ॥ नि- अत्यन्तकोमलानि तलानि - अधोभागा येषां ते तथा तैः, 'छेएहिं'ति छेकै:- अवसरज्ञैः, द्विसप्ततिकलापण्डितैरिति वृद्धाः, 'दक्खेहिं'ति कार्याणामविलम्बितकारिभिः 'पत्तट्ठेहिं' ति प्राप्तार्थैः - लब्धोपदेशैरित्यर्थः 'कुस लेहिं' ति सम्बाधनाकमणि साधुभिः 'मेहावीहिंति मेधाविभिः - अपूर्वविज्ञानग्रहणशक्तिकैः 'निउणसिप्पोवगएहिं ति निपुणानि - सूक्ष्माणि यानि शिल्पानि - अङ्गमर्दनादीनि तान्युपगतानि - अधिगतानि यैस्ते तथा तैः, 'अभंगणपरिमद्दणुबलणकरणगुणणिम्माएहिं ति अभ्यङ्गनमर्द्दनोद्वलनानां प्रतीतार्थानां करणे ये गुणाः - विशेषास्तेषु निर्माता ये ते तथा तैः । 'अट्ठिसुहाए' त्ति अस्थ्नां सुखहेतुत्वादस्थिसुखा तया, एवं शेषाण्यपि, 'संवाहणाए 'ति सम्बाधनया संवाहनया वा, वि श्रामणयेत्यर्थः, 'अवगयखेय परिस्समे 'त्ति खेदो- दैन्यं 'खिद दैन्ये' इति वचनात् परिश्रमः- व्यायामजनितशरीरास्वास्थ्यविशेषः, 'समत्त जालाउलाभिरामे'त्ति समस्तः- सर्वो जालेन - विच्छत्तिच्छिद्रोपेतगृहावयवविशेषेणाकुलो-व्याप्तोऽभिरामश्चरम्यो यः स तथा पाठान्तरे समुक्तेन - मुक्ताफलयुतेन जालेनाऽऽकुलोऽभिरामश्च यः स तथा, 'विचित्तमणिरयणकुट्टि मतले 'त्ति कुट्टिमतलं - मणिभूमिका, 'सुहोदहिंति शुभोदकैस्तीर्थोदकैः सुखोदकैर्वा - नात्युष्णैरित्यर्थः, 'गंधोद एहिं 'ति श्रीखण्डादिरसमिश्र : 'पुप्फोदएहिं'ति पुष्परसमिश्रैः 'सुद्धोद एहिं'ति स्वाभाविकैरित्यर्थः, 'तत्थ कोउयसएहिं ति तत्रस्नानावसरे यानि कौतुकानां रक्षादीनां शतानि तैः 'पम्हलसुकुमालगंधकासाइलूहियंगे' पक्ष्मला - पक्ष्मवती अत एव सुकुमाला गन्धप्रधाना काषायी - कषायरक्तशाटिका तया लूक्षितं विरुक्षितमङ्ग - शरीरं यस्य स तथा । Jain Education International For Personal & Private Use Only कोणिक ० सू० ३१ ॥ ६५ ॥ www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy