________________
*
*
*
इयवच्छे पालंबपलबमाणपडसुकयउत्तरिजे णाणामणिकणगरयणविमलमहरिहणिउणोविअमिसिमिसंतविरइयसुसिलिट्ठविसिठ्ठलहआविद्धवीरवलए।
'अट्टणसाल'त्ति व्यायामशाला'अणेगवायामजोग्गवग्गणवामद्दणमलजुद्धकरणहिँ ति अनेकानि यानि व्यायामाय-व्यायामनिमित्तं योग्यादीनि तानि तथा तैः, तत्र योग्या-गुणनिका वलानम्-उल्लङ्घनं व्यामईनं-परस्परस्याङ्गमोटनं मल्लयुद्धं-प्रतीतं करणानि च-अङ्गभङ्गविशेषा मल्लशास्त्रप्रसिद्धाः, सयपागसहस्सपागेहि ति शतकृत्वो यत्पक्कमपरापरौषधीरसेन सह शतेन वा कार्षापणानां यत्पक्वं तच्छतपाकमेवमितरदपि, 'सुगंधतेल्लमाईएहिंति अत्र अभ्यङ्गैरिति योगः,आदिशब्दाद् घृतकर्पूरपानीयादिपरिग्रहः, किम्भूतैरित्याह-'पीणणिजेहिंति रसरुधिरादिधातुसमताकारिभिः 'दप्पणिजेहिं'तिदर्पणीयैर्बलकरैः 'मयणिजेहिति मदनीयैर्मन्मथवर्द्धनैः 'विहणिजेहिंति बृहणीयैर्मासोपचयकारिभिः 'सबिंदियगायपल्हायणिज्जेहिं'ति प्रतीतं, एतानि पदानि वाचनान्तरे क्रमान्तरेणाधीयन्ते, 'तेल्लचम्मंसित्ति तैलाभ्यक्तस्य यत्र स्थितस्य सम्बाधना क्रियते तत्तैलचर्म, तत्र संवाहिएत्ति योगः, 'पडिपुण्णपाणिपायसुकुमालकोमलतलेहिं ति प्रतिपूर्णानां पाणिपादानां सुकुमारकोमला
१ न च वाच्यं 'प्राणितुर्याङ्गाणा' मिति द्वन्द्वैकत्वभावादसाधु, सिद्ध एकवचनेन कार्ये बहुवचनात्तदनित्यता, न च ततोऽसाधुरयं, यद्वाऽनेकपाणिविवक्षया पाणिपादं च पाणिपादं च पाणिपादं च पाणिपादानि तेषामिति समाहारगर्भो द्वन्द्वः तेषां पाणिपादानामिति स्याद्, आलोच्यमेतदविरोधेन सुधिया।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org