________________
|णिजे पूयणिज्जे सकारणिजे सम्माणणिज्जे कल्लाणं मंगलं देवयं चेइयं विणएणं पज्जुवासणिजे दिव्वे सच्चे सचोवाए सण्णिहियपाडिहेरे जागसहस्सभागपडिच्छए बहुजणो अच्चेइ आगम्म पुण्णभई चेइयं २| (सू०२)॥
'तीसे'त्ति तस्यां 'ण'मित्यलङ्कारे चम्पायां नगर्या 'उत्तरपुरस्थिमे'त्ति उत्तरपौरस्त्ये-उत्तरपूर्वायामित्यर्थः, 'दिसिभाए'त्ति |दिग्भागे, पूर्णभद्रं नाम चैत्यं-व्यन्तरायतनं, 'होत्थेति अभवत् । 'चिराईए पुवपुरिसपण्णत्ते' चिरम्-चिरकाल आदिः| निवेशो यस्य तच्चिरादिकम् , अत एव पूर्वपुरुषैः-अतीतनरैः प्रज्ञप्तम्-उपादेयतया प्रकाशितं पूर्वपुरुषप्रज्ञप्तं । 'पोराणे'त्ति |चिरादिकत्वात्पुरातनं । 'सहिए'त्ति शब्दः-प्रसिद्धिः स सञ्जातो यस्य तच्छब्दितं । 'वित्तिए'त्ति वित्तं-द्रव्यं तदस्ति यस्य तद्वित्तिक, वृत्तिं वाऽऽश्रितलोकानां ददाति यत्तद्वृत्तिदं । 'कित्तिए'त्ति पाठान्तरं, तत्र कीर्तितं-जनेन समुत्कीर्तितं कीर्त्तिदं वा । 'णाए'त्ति न्यायनिर्णायकत्वात् न्यायः ज्ञातं वा-ज्ञातसामर्थ्यमनुभूततत्प्रसादेन लोकेनेति । सच्छत्रं सध्वज ||5 सघण्टंमिति व्यक्तं । 'सपडागाइपडागमंडिए' सह पताकया वर्तत इति सपताकं तच्च तदेकां पताकामतिक्रम्य या पताका सा अतिपताका तया मण्डितं यत्तत्तथा, वाचनान्तरे-'सपडाए पडागाइपडागमंडिए'त्ति । 'सलोमहत्थे' लोममयप्रमार्जनकयुक्तं । 'कयवेयदिए' कृतवितर्दिक-रचितवेदिकं । 'लाउल्लोइयमहिए' लाइयं-यद्भूमेश्छगणादिनोपलेपनम् , उल्लोइयं| कुड्यमालानां सेटिकादिभिः संमृष्टीकरणं, ततस्ताभ्यां महितमिव महितं-पूजितं यत्तत्तथा । 'गोसीससरसरत्तचंदणदद्दर-६ | दिन्नपंचंगुलितले' गोशीर्षेण-सरसरक्तचन्दनेन च दईरेण-बहलेन चपेटाप्रकारेण वा दत्ताः पञ्चाङ्गुलयः तला-हस्तका
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org