________________
पाठान्तरं, ततो धर्मितादीनां कर्मधारयः, अतस्तत् , 'अहियतेयजुत्तंति क्वचिदृश्यते, तत्राधिकाधिकेन-अत्यर्थमधिकेन अहितानां वा शत्रूणामहितेन-अपथ्येन तेजसा-प्रभावेण युक्तं यत्तत्तथा तत् । 'सललियवरकण्णपूरविराइयं' |सललिते-लालित्योपेते वरे ये कर्णपूरे-कर्णाभरणे ताभ्यां विराजितं यत्तत्तथा तत्, 'पलंबउच्चलमहुअरकयंधयार' प्रलम्बान्यवचूलानि-टगकन्यस्ताधोमुखकूर्चका यस्य तत् प्रलम्बावचूलं मधुकरैः-भ्रमरैर्मदजलगन्धाकृष्टैः कृतमन्धकारं यस्य तत्तथा, ततः कर्मधारयः, अतस्तत्, वाचनान्तरं त्वेवं नेयं 'विरचितवरकर्णपूरं सललितप्रलम्बावचूलं च चामरोत्करकृतान्धकारं च यत्तत्तथा तत्, चामरोकरकृतान्धकारता तु चामराणां कृष्णत्वात् , 'चित्तपरिच्छेयपच्छयं' चित्रः परिच्छेको-लघुः प्रच्छदो-वस्त्रविशेषो यस्य तत्तथा तत्, 'पहरणावरणभरियजुद्धसज्ज' प्रहरणावरणानाम्-आयुधकवचानां भृतं यत् युद्धसज्ज च-सङ्ग्रामप्रगुणं यत्तत्तथा तत् , पाठान्तरे 'सचापशरप्रहरणावरणभरितयुद्धसज्ज'मिति, सच्छत्रं सध्वज सघण्टमिति व्यक्तम् , सपताकमित्यपि दृश्यते, तत्र पताका-गरुडसिंहादिचिह्नर-14 हिताः, 'पंचामेलयपरिमंडियाभिरामं पञ्चभिः-आमेलकैः चूडाभिः परिमण्डितमत एवाभिराम-रम्यं यत्तत् तथा तत् , | 'ओसारियजमलजुयलघंटे' अवसारितम्-अवलम्बितं यमलं-समं युगलं-द्विकं घण्टयोर्यत्र तत्तथा तत् , 'विजुपणद्धं व | कालमेहं' घण्टाप्रहरणादीनामुज्ज्वलदीप्तियुक्तत्वेन विद्युत्कल्पत्वात् विद्युत्परिगतमिवेत्युक्तं, हस्तिदेहस्य कालत्वेन महत्त्वेन ||8 च मेघकल्पत्वात् कालमेघमित्युक्तम् , 'उप्पाइयपवयं व चंकमत' स्वाभाविकपर्वतो हि न चङ्गमते अत उच्यते औत्पातिक-| पर्वतमिव चक्रम्यमाणं, पाठान्तरेतु औत्पातिकपर्वतमिव सक्खंति-साक्षात् , 'मत्तं गुलुगुलंत'मिति व्यक्तं, क्वचित् 'महामेघ'
158
For Personal & Private Use Only
Jan Education International
www.jainelibrary.org