________________
औपपा
तिकम्
कृतं पाणिपादं यस्ते तथा, अत एव 'अंजलिमउलियहत्था' अञ्जलिना-अञ्जलिरूपतया मुकुलितौ-मुकुलाकारौ कृतौ ll जननिर्ग० हस्तौ यैस्ते तथा, वाचिकपर्युपासनामाह-'एवमेयं भंतेत्ति एवमेतद्भदन्त !-भट्टारकेति सामान्यतः 'अवितहमेय'ति विशेव 'असंदिद्धमेय'ति शङ्काया अविषय इत्यर्थः, अत एव 'इच्छियमेयंति इष्टमस्माकमेतत् , अत एव 'पडि.
सू०२७ च्छियमेयंति भगवन्मुखात् पतत् प्रतीप्सितमागृहीतमेतत् इहच किञ्चिदिष्टमेव दृष्टमन्यत् प्रतीप्सितमेवेत्यत उच्यते-'इच्छि|यपडिच्छियमेयंति, 'सच्चे णं एसमठे' प्राणिहितोऽयमर्थ इति, माणसियाए''तच्चित्त'त्ति तस्मिन् भगवदचने चित्त-भावमनो येषां ते तच्चित्ताः, सामान्योपयोगापेक्षयावा तच्चित्ताः, 'तम्मण'त्ति तन्मनसो द्रव्यमनःप्रतीत्य विशेषोपयोगंवा, 'तल्लेस्स'त्ति तल्लेश्याः भगवद्वचनगतशुभात्मपरिणामविशेषाः, लेश्या हि कृष्णादिद्रव्यसाचिव्यजनित आत्मपरिणामः, तदाह-कृष्णादिद्रव्यसाचिव्यात्, परिणामोय आत्मनः। स्फटिकस्येव तत्रायं, लेश्याशब्दःप्रयुज्यते ॥१॥"'तयज्झवसियत्ति इहाध्यव| सायःअध्यवसितं तच्चित्तत्वादिभावयुक्तानां सतांतस्मिन्-भगवद्वचने एवाध्यवसितं क्रियासम्पादनविषयं येषां ते तदध्यवसिताः, तत्तिव-ज्झवसाण'त्ति तस्मिन्नेव-भगवद्वचने तीव्रमध्यवसानं-श्रवणविधिक्रियाप्रयत्नविशेषरूपं येषां ते तथा, तदप्पियकरण'त्ति तस्मिन्-भगवत्यर्पितानि करणानि-इन्द्रियाणि शब्दरूपादिषु श्रोत्रचक्षुरादीनि यैस्ते तदर्पितकरणाः, तयट्ठोवउत्त'त्ति ॥६ ॥ तस्य-भगवद्वचनस्य योऽर्थस्तत्रोपयुक्ता ये ते तदर्थोपयुक्ताः, 'तब्भावणाभाविय'त्ति तेन-भगवद्वचनेन तदर्थेन वा यका भावना-वासना प्राक्तनमुहूर्ते तया भाविता-वासिता न वासनान्तरमुपगता येते तद्भावनाभाविताः, अत एव 'एगमण'त्ति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org