________________
समुद्दरवभूयं पिव करेमाण'त्ति प्रक्षुभितमहाजलधे?षप्राप्तमिव-तन्मयमिव नगरं विदधाना इत्यर्थः, क्वचिदिदं पदचतुष्टयं दृश्यते-'पायददरेणं भूमि कंपेमाण'त्ति त्वरितगमनजनितपादप्रहारेण, 'अंबरतलमिव फोडेमाण'त्ति पादपातप्रतिरवेणाकाशं स्फोटयन्त इव, 'एगदिसिं'ति एकया दिशा पूर्वोक्तलक्षणया, 'एगाभिमुह'त्ति एक भगवन्तमभि-लक्षणीकृत्य मुखं येषां ते एकाभिमुखाः, 'तित्थगराइसेसे'त्ति तीर्थकरातिशेषान् जिनातिशयान्, 'जाणवाहणाई ठावइंति'त्ति यानानि-शकटादीनि वाहनानि-गवादीनि स्थापयन्ति-स्थिरीकुर्वन्ति, क्वचिद् 'विट्ठभंती'ति दृश्यते, तत्र विशेषेण स्तम्भयन्ति-निश्चलीकुर्वन्ति, इतो वाचनान्तरगतं बहु लिख्यते-'जाणाई मुयंति'त्ति भुवि विन्यस्यन्ति, 'वाहणाई विसज्जेति'त्ति चरणार्थ मुत्कलयन्ति, 'पुप्फतंबोलाइयं आउहमाइयं सच्चित्तालंकार'ति सचित्तं च-सचेतनमलङ्कारं च-राजलक्षणं च विसर्जयन्तीति योगः, किंरूपं सचित्तमित्याह-पुष्पताम्बूलादिकम् , आदिशब्दात् तथाविधफलादिग्रहः, तथा अलङ्कारं च किंविधमित्याह-आयुधादिकम् , आयुधं-खड्गादि आदिशब्दाच्छत्रचामरमुकुटपरिग्रहः, 'पाहणाओ यत्ति उपानही च, 'एगसाडियं | उत्तरासंगति एकशाटकवन्तमुत्तरीयविन्यासविशेषं, 'आयंत'त्ति आचान्ताः-शौचाथै कृतजलस्पर्शाः, 'चोक्ख'त्ति आचम-18 नादपनीताशुचिद्रव्याः , 'परमसुईभूय'त्ति अत एवात्यर्थं शुचीभूताः, 'अभिगमेणं'ति उपचारेण, 'अभिगच्छंति' भगवन्तमुपचरन्ति, 'चक्खुप्फासे'त्ति दर्शने 'मणसा एगत्तीभावकरणेणं'ति अनेकत्वस्य एकत्वस्य भवनम् एकत्वीभावस्तस्य यत् करणं तत्तथा तेन एकत्वीभावकरणेन, आत्मन इति गम्यते, मनसः एकाग्रतयेत्यर्थः, कायिकपर्युपासनामाह-सुसमाहियपसंतसाहरियपाणिपाया' सुसमाहितैः-बहिवृत्त्याऽत्यन्तनिभृतैः प्रशान्तः-अन्तवृत्त्या उपशान्तैः सद्भिः संहृतं-संलीनी
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org