SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ औपपातिकम् ॥ ५६ ॥ +++% समुद्भवः ॥ १ ॥” सललितः - समाधुर्यः संलापः - परस्परभाषणम्, आह च - "संलापो भाषणं मिथः” अथवा ललितेन सह यः संलापः स तथा, ललितलक्षणं चेदम्- “हस्तपादाङ्गविन्यासो, नेत्रोष्ठप्रयोजितः । सौन्दर्य कामिनीनां यललित तरप्रकीर्तितम् ॥ १ ॥” उपचारः - पूजा, 'सुन्दरस्तनजघनवदनकरचरणनयनलावण्यरूपयौवनविलास कलिताः' सुन्दराः | स्तनादिनयनान्ता अवयवा यासां लावण्यप्रधानरूपेण स्पृहणीयेनेत्यर्थो यौवनेन विलासेन च कलिता यास्तास्तथा, इह च विलास एवंलक्षणो ग्राह्यो, यदुक्तम् - "स्थानासनगमनानां हस्त नेत्रकर्मणां चैव । उत्पद्यते विशेषो यः श्लिष्टः स तु विलासः स्यात् ॥ १ ॥” इति, श्लिष्ट इति सुश्लिष्टः 'सुरवधुओ'त्ति विशेष्यपदं, 'सिरीसन वणीयमउयसुकुमाल तुल्लफासाओ' | शिरीषं - शिरीषाभिधानतरुकुसुमं नवनीतं च-चक्षणं ते च ते मृदुकसुकुमारे च- अत्यन्तसुकुमारे इति विशेष्यपूर्वपदः | कर्मधारयः तत्तुल्यः स्पर्शो यासां तास्तथा, 'ववगयकलिकलुसधोयनिद्धंतरयमलाओ' व्यपगते कलिकलुषे - राटीपापकर्मणी यासां तास्तथा धौतौ- प्रक्षालितौ निर्ध्यातौ दग्धौ रजः स्पृष्टावस्थो रेणुः मलस्तु बद्धावस्थं रज एवेति धौतनिर्माताविव | धौतनिर्माता रजोमलौ यासां तास्तथा, ततः कर्मधारयः, 'सोमाउ'त्ति सोम्या-नीरुजः 'कंताओ' त्ति काम्याः 'पियदंसणाओ'ति सुभगाः, सुरूपा इति व्यक्तं, 'जिणभत्तिदंसणाणुरागेण हरिसियाओत्ति जिनं प्रति भक्त्या कृत्वा यो दर्शनानुरागो-दर्शनेच्छा स तथा तेन हर्षिताः- सञ्जातरोमाञ्चादिहर्षकायाः, 'ओवइया यावि'त्ति अवपतिताश्चाप्यवतीर्णाः, 'जिनसगासं'ति जिनसमीपे, 'दिषेण' मित्यादि देववर्णकवन्नेयं, नवरं 'ठियाओ चेव'त्ति ऊर्ध्वस्थानस्थिता इति ॥ २६ ॥ Jain Education International For Personal & Private Use Only देवीवर्णनं सू० २६ ॥ ५६ ॥ www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy