SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ तानि प्रावृताः, 'वरचन्दनचर्चिताः वराभरणभूषिता' इति व्यक्तं, 'सबोउयसुरभिकुसुमसुरइयविचित्तवरमल्लधारिणीओ' सर्वतुकैः सुरभिकुसुमैः सुरचितं विचित्रं वरं माल्य-मालां धारयन्ति यास्तच्छीलाश्च तास्तथा, 'सुगंधिचुण्णंगरागवरवासपुष्फपूरगविराइया' सुगन्धिचूर्णैरङ्गरागेण च-देहरञ्जनेन वरवासैः पुष्पपूरकेण च-पुष्परचनाविशेषेण विराजिता यास्ता|स्तथा, 'अहियसस्सिरीया' अधिकं सह श्रिया-शोभया यास्तास्तथा, 'उत्तमवरधूवधूविया' उत्तमानां मध्ये यो वरधूपः स | तथा तेन धूपेन धूपिताः कृतसौगन्ध्याः यास्तास्तथा, 'सिरीसमाणवेसा' श्रीः-देवता सा च लोके शोभनवेषेति रूढा अतस्तयोपमा कृतेति, 'दिवकुसुममल्लदामपन्भंजलिपुडाओ' दिव्यैः-चरैः कुसुमैः-अविकसितैः माल्यैः-विकसितैः दामभिश्च-तन्मयमालाभिः प्रहाः-पूजासज्जाः अञ्जलिपुटाः-अञ्जलय एव यासां तास्तथा, उच्चत्वेन च सुराणां स्तोकोनमुच्छ्रिताः, । 'चन्द्रानना' इति व्यक्तं, 'चंदविलासिणीओ'त्ति चन्द्रस्येव विलासः कान्तिर्यासां तास्तथा, 'चन्द्रार्द्धसमललाटाः चन्द्राधिकसौम्यदर्शना उल्का इवोद्योतमाना' इति व्यक्तं, 'विजुघणमिरीइसूरदिपंततेअअहियतरसंनिकासाओ' विद्युतो ये घना मरीचयः-किरणाः सूरस्य च यद्दीप्तं-तेजस्तेभ्योऽधिकतरः सन्निकाशो-दीप्तिर्यासां तास्तथा, 'सिंगारागारचारुवेसाओ' शृङ्गारो-रसविशेषस्तत्प्रधान आकार:-आकृतिश्चारुश्च वेषो-नेपथ्यं यासां तास्तथा, अथवा शृङ्गारस्यागारमिव-गृहमिव याश्चारुवेषाश्च यास्तास्तथा, 'संगयगयहसियभणियचेठियविलाससललियसलावनिउणजुत्तोवयारकुसलाओं' सङ्गतानि-उचि-10 तानि यानि गतादीनि तेषु निपुणा याः सङ्गतोपचारकुशलाश्च यास्तास्तथा, तत्र गतं-गमनं हसितं-हासः भणितं-वचनं चेष्टितं-चेष्टा विलासो-नेत्रविकारः, यदाह-"हावो मुखविकारः स्यात्, भावश्चित्तसमुद्भवः। विलासो नेत्रजो ज्ञेयो, विभ्रमो Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy