SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ औपपा देवीवर्णनं तिकम् सू० २६ भरणविशेषाः वलाक्ष-रूढिगम्यं दीनारमालिकाचन्द्रमालिकासूर्यमालिकास्तु दीनाराद्याकृतिमालाः काशीमेखलयोः कव्याभरणयोयद्यपि नामकोशे एकार्थत्वमधीयते तथापीह विशेषो रूढेरवसेयः कलापः कण्ठाभरणविशेषो मेखलाकलाप इति वा द्रष्टव्यं प्रतरकाणि-वृत्तपतला आभरणविशेषाः परिहेरगत्ति-रूट्यवसेयं पादजालघण्टिका:-पादाभरणविशेषाः | किङ्किणीका:-क्षुद्रघण्टिकाः रत्नोरुजाल-रत्नमयं जयोःप्रलम्बमानं सङ्कलक क्षुद्रिका:-तत्प्रान्तपण्टिकाः वरनपराणिप्रतीतानि क्षुद्रिकावरनूपुराणि वा-क्षुद्रघण्टिकाप्रधानतुलाकोटिकानि चलनमालिका-पादाभरणविशेषः कनकनिगलानिनिगडाकाराः सौवर्णपादाभरणविशेषाःजालक-चरणाभरणविशेषः, मकरमुखविराजमाननूपुराणि-प्रतीतानि । 'दसद्धवण्णरागरइयरत्तमणहरे'त्ति दशार्द्धवर्णैः-पञ्चवर्णे रागै-रञ्जनद्रव्यैः कुसुम्भादिभिर्यानि रञ्जितत्वेन रक्तानीव रक्तानि मनोहराणि च तानि तथा तानि अंशुकानि निवसिता इति योगः, महार्याणि, नासानिःश्वासवायुवाह्यानि लघूनीत्यर्थः, चक्षुहराणि अङ्गावारकत्वात् , वर्णस्पर्शयुक्तानि अतिशयवर्णादीनीत्यर्थः, 'हयलालापेलवाइरेगे' अश्वलालाभ्यः सकाशात् पेलवानि-सुकुमाराण्यतिरेकेण यानि तानि तथा, 'धवले'त्ति कानिचिद्धवलानि, 'कणगखचियंतकम्मे कनकखचितं-सुवर्ण मण्डितम् अन्तकर्म-अञ्चलकर्म वानलक्षणं येषां तानि तथा, 'आगासफालियसरिसप्पहे' आकाशस्फटिकयोराकाशरूपम स्फटिकस्य वा सदृशी प्रभा येषां तानि तथा 'अंसुए नियत्थाओ'त्ति वस्त्राणि निवसिताः, 'आयरेणं ति व्यक्तं, 'तुसारगो क्खीरहारदगरयपंडुरदुगुल्लसुकुमालसुकयरमणिजउत्तरिजाई पाउयाओ'त्ति व्यक्तं, नवरं तुषारं-हिमं दगरयत्ति-उदकरजस्तद्वत् पाण्डुराणि यानि दुकूलानि-वस्त्राणि तान्येव सुकुमालानि सुकृतानि रमणीयानि च यान्युत्तरीयाणि तानि तथा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy