________________
णिजालकणगजालसुभगउरितियकडगखडगएगावलिकंठसुत्तमगहगधरच्छगेवेजसोणिसुत्तगतिलगफुल्लगसिद्धत्थियाण्णवालियससिसूरउसभचक्कयतलभंगयतुडियहत्थमालयहरिसकेऊरवलयपालंबपलंबअंगुलिजगवलक्खदीणारमालियाचंदसूरमालियाकंचिमेहलकलावपयरगपरिहेरगपायजालघंटियाखिखिणिरयणोरुजालखुड्डियवरनेउरचलणमालियाकणगणिगलजालगमगरमुहविरायमाणनेऊरपचलियसद्दालभूसणधरीउत्ति हारादीनि मकरमुखविराजमाननूपुरान्तानि प्रचलितानि सन्ति सद्दालत्ति-शब्दवन्ति यानि भूषणानि तानि धारयन्ति यास्तास्तथा, तत्र हारः-अष्टादशसरिकः अर्द्धहारो-नवसरिकः |पाउत्तत्ति-प्रयुक्तानि माणिक्ययुक्तकङ्कणानि रत्नकुण्डलानि-प्रतीतानि अथवा प्रयुक्तरत्नकुण्डलानि-प्रयुक्तरत्नानि यानि कुण्डलानि तानि तथा तथा व्यामुक्तकानि-परिहितानि प्रलम्बितानि वा यानि हेमजालादीनीति कर्मधारयः, तत्र हेमजालं-सच्छिद्रः सुवर्णालङ्कारविशेषः एवं मणिजालमपि कनकजालहेमजालयोस्तु आकारकृतो विशेषः स च रूढिगम्यः सूत्रक-वैकक्षककृतं सुवर्णसूत्रम् 'उरितिय'त्ति उरसि त्रिक त्रिसरके कटकानि-कङ्कणानि खड्गत्ति-अङ्गुलीयकविशेषः एकावली-नानामणिकमयी माला कण्ठसूत्र-गलावलम्बि सङ्कलकविशेषः मगधकं धराक्षं च रूढिगम्यं अवेयक-कण्ठलं |श्रोणिसूत्रक-सौवर्ण कटीसूत्रं तिलको-विशेषको ललाटाभरणमित्यर्थः फुल्लक-पुष्पाकृतिललाटाभरणं सिद्धार्थका-सर्षपप्रमाणसुवर्णकणरचितसुवर्णमणिमयी कण्ठिका कर्णवालिका-कर्णोपरितनभागभूषणविशेषः शशिसूरऋषभचक्रकानि तलभङ्गकं च रूढिगम्यानि त्रुटिका:-बाहुरक्षिकाः हस्तमालक:-अङ्गणेत्रिका हरिसत्ति-रूढिगम्यं केयूरम्-अङ्गदं बाह्वाभरणविशेषः वलयानि-कटकविशेषाः प्रालम्बो-झुम्बनकं प्रलम्बो गलाभरणविशेषः इत्यर्थः अङ्गुलीयकानि-अङ्गुल्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org