SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ उलणवणलिणिसोभियजला पंडरवरभवणसण्णिमहिया उत्ताणणयणपेच्छणिज्जा पासादीया दरिसणिज्जा अभिरूवा पडिरूवा ॥ (सू०१) । 'विवणिवणिच्छेत्तसिप्पियाइण्णणिव्वुयसुहा' विपणीनां-वणिकपथानां हट्टमार्गाणां, वणिजांच-वाणिजकानां च, क्षेत्रंस्थानं या सा तथा, शिल्पिभिः-कुम्भकारादिभिराकीर्णा अत एव जनप्रयोजनसिद्धर्जनानां निर्वृतत्वेन सुखितत्वेन च निर्वतसुखा च या सा तथा, वाचनान्तरे छेत्तशब्दस्य स्थाने छेयशब्दोऽधीयते, तत्र च छेकशिल्पिकाकीर्णेति व्याख्येयम् । |'सिंघाडगतिगचउक्कचच्चरपणियावणविविवत्थुपरिमंडिया' शृङ्गाटक-त्रिकोणं स्थानं, त्रिक-यत्र रथ्यात्रयं मिलति, चतुलाक-रथ्याचतुष्कमेलकं, चत्वरं-बहुरथ्यापातस्थानं, पणितानि-भाण्डानि तत्प्रधाना आपणा-हट्टाः, विविधवस्तूनि-अनेक विधद्रव्याणि, एभिः परिमण्डिता या सा तथा, पुस्तकान्तरेऽधीयते-'सिंघाडगतिगचउक्कचच्चरचउम्मुहमहापहपहेसु |पणियावणविविंहवेसपरिमंडिया' तत्र चतुर्मुखं-चतुर्दारं देवकुलादि, महापथो-राजमार्गः, पन्थाः-तदितरः, ततश्च शृङ्गाटकादिषु पणितापणैः विविधवषैश्च जनैर्विविधवेश्याभिर्वा परिमण्डिता या सा तथा । 'सुरम्मा' अतिरमणीया। नरवइपविइण्णमहिवइमहा' नरपतिना-राज्ञा प्रविकीर्णो-गमनागमनाभ्यां व्याप्तो महीपतिपथो-राजमार्गों यस्यां सा तथा, | अथवा-नरपतिना प्रविकीर्णा-विक्षिप्ता निरस्ताऽन्येषां महीपतीनां प्रभा यस्यां सा तथा, अथवा-नरपतिभिः प्रविकीर्णा महीपतेः प्रभा यस्यां सा तथा। 'अणेगवरतुरगमत्तकुंजररहपहकरसीयसंदमाणीयाइण्णजाणजुग्गा' अनेकैवरतुरगैमेतकुञ्जरैः | रहपहकरत्ति-रथनिकरैः शिबिकाभिः स्यन्दमानीभिराकीर्णा-व्याप्ता यानैर्युग्यैश्च या सा तथा, अथवा-अनेके वरतुरगा Jaln Education a l For Personal & Private Use Only www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy