SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ औपपातिकम् ॥३॥ अधःसङ्कटं परिखा च-अध उपरि च समखातरूपा यस्यां सा तथा । 'चक्कगयमुसुंढि ओरोहसयग्धिजमलकवाडघणदुप्प- नगर्यधिक |वेसा' चक्राणि-रथाङ्गानि अरघट्टाङ्गानि वा, गदाः-प्रहरणविशेषाः, मुसुण्ढयोऽप्येवम् , अवरोधः-प्रतोलिद्वारेष्ववान्तरप्राकारः सम्भाव्यते, शतघ्न्यो-महायष्टयो महाशिला वा या उपरिष्टात्पातिताः सत्यः शतानि पुरुषाणां घ्नन्तीति, यम-||5|| लानि-समसंस्थितद्वयरूपाणि यानि कपाटानि घनानि च निश्छिद्राणि तैर्दुष्प्रवेशा या सा तथा । 'धणुकुडिलवंकपागारपरिक्खित्ता' धनुःकुटिलं-कुटिलधनुस्ततोऽपि वक्रेण प्राकारेण परिक्षिप्ता या सा तथा । 'कविसीसयवट्टरइयसंठियविरायमाणा' कपिशीर्षकैर्वृत्तरचितैः-वर्तुल कृतैः संस्थितैः-विशिष्टसंस्थानवद्भिर्विराजमाना-शोभमाना या सा तथा। 'अट्टालयचरियदारगोपुरतोरणउण्णयसुविभत्तरायमग्गा' अट्टाल काः-प्राकारोपरिवाश्रयविशेषाः, चरिका-अष्टहस्तप्रमाणा नगरप्राकारान्तरालमार्गाः, द्वाराणि-प्राकारद्वारिकाः, गोपुराणि-पुरद्वाराणि, तोरणानि-प्रतीतानि, उन्नतानि-गुणवन्ति उच्चानि च यस्यां सा तथा, सुविभक्ताः-विविक्ता राजमार्गा यस्यां सा तथा, ततः पदद्वयस्य कर्मधारयः। 'छेयायरियरइयदढफलिहइंदकीला' छेकेन-निपुणेनाचार्येण-शिल्पिना रचितो दृढो-बलवान् परिधः-अर्गला इन्द्रकीलश्च-गोपुरावयव. विशेषो यस्यां सा तथा। विवणिवणिच्छेत्तसिप्पियाइण्णणिव्वुयसुहा सिंघाडगतिगचउक्कचच्चरपणियावणविविहवत्थुपरिमंडिया सुरम्मा नरवइपविइण्णमहिवइपहा अणेगवरतुरगमत्तकुंजररहपहकरसीयसंदमाणीयाइण्णजाणजुग्गा विम Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy