SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ अङ्किल्ला इत्येके, जल्ला-वरत्राखेलकाः, राज्ञः स्तोत्रपाठका इत्यन्ये, मल्ला:-प्रतीताः मौष्टिका-मल्ला एव ये मुष्टिभिः प्रहरन्ति, विडम्बकाः-विदूषकाः, कथकाः-प्रतीताः, प्लवका-ये उत्प्लवन्ते नद्यादिकं वा तरन्ति, लासका-ये रासकान् गायन्ति, | जयशब्दप्रयोक्तारो वा, भाण्डा इत्यर्थः, आख्यायका-ये शुभाशुभमाख्यान्ति, लढा-महावंशानखेलकाः, मङ्खाः-चित्र. फलकहस्ता भिक्षुकाः, तूणइल्ला-तूणाभिधानवाद्यविशेषवन्तः, तुम्बवीणिका-वीणावादकाः, अनेके च ये तालाचराः-तालादानेन प्रेक्षाकारिणस्तैरनुचरिता-आसेविता या सा तथा । 'आरामुजाणअगडतलायदीहियवप्पिणिगुणोववेया' आरमन्तियेषु माधवीलतागृहादिषु दम्पत्यादीनि क्रीडन्ति, आरामाः, उद्यानानि-पुष्पादिमवृक्षसङ्कलान्युत्सवादी बहुजनभोग्यानि, 'अगडत्ति' अवटाः-कूपाः, तडागानि-प्रतीतानि, दीर्घिका-सारणी, 'वप्पिणि'त्ति केदाराः, एतेषां ये गुणा| रम्यतादयस्तैरुपपेता-युक्ता या सा तथा, उप अप इत इत्येतस्य शब्दत्रयस्य स्थाने शकन्ध्वादिदर्शनादकारलोपे उपपेतेति भवति । क्वचित्पठ्यते 'नन्दणवणसन्निभप्पगासा' नन्दनवन-मेरोर्द्वितीयवनं तत्प्रकाशसन्निभः प्रकाशो यस्यां सा तथा, इह चैकस्य प्रकाशशब्दस्य लोपः उष्ट्रमुख इत्यादाविवेति । | उव्विद्धविउलगंभीरखायफलिहा चक्कगयमुसुंढिओरोहसयग्घिजमलकवाडघणदुप्पवेसा धणुकुडिलवंकपागारपरिक्खित्ता कविसीसयवट्टरइयसंठियविरायमाणा अद्यालयचरियदारगोपुरतोरणउण्णयसुविभत्तरायमग्गा छेयायरियरहयढफलिहइंदकीला 'उविद्धविउलगम्भीरखायफलिहा' उद्विद्धं-उर्द्ध विपुलं-विस्तीर्ण गम्भीरम्-अलब्धमध्यं खातम्-उपरिविस्तीर्णम् | Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600242
Book TitleAuppatiksutram
Original Sutra AuthorAbhaydevsuri, Dronacharya
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages244
LanguageSanskrit
ClassificationManuscript & agam_aupapatik
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy